पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
प्रथमः सर्गः।

धैर्यभङ्गमेवाह-

किमन्यदद्यापि यदस्त्रतापितः पितामहो वारिजमाश्रयत्यहो।
स्मरं तनुच्छायतया तमात्मनः शशाक शङ्के स न लङ्घितुं नलः ४७

किमन्यदिति ॥ यस्य कामस्यास्त्रैर्बाणैस्तापितः पितामहो ब्रह्माद्यापि वारिजं कमल- माश्रयति । अहो आश्चर्ये । वृद्धोऽपि ब्रह्मा कामसंतप्तः । यः स्वपितामहमप्यतिवृद्ध- मतिपूज्यं शस्त्रैः पीडयतीति सोऽन्यं पीडयतीति किं वाच्यम् । स्वभावसिद्धं कम- लासनत्वं कामसंतप्तत्वेनोत्प्रेक्षितम् । लुप्तोत्प्रेक्षा । संतप्ताः शीतलमाश्रयन्ते । अत एव वारिजपदम् । अन्यत्कामस्य किं वर्णनीयं तत्राह-शङ्के इति । नल आत्मनः स्वस्य त- नुच्छायतया शरीरसाम्येनेव । यद्वा-तन्वी छाया शोभा यस्य तस्य भावस्तत्ता तया विरहव्यथाजनितम्लानशोभतया तं स्मरं लङ्गितुं जेतुं न शशाक । यद्वा--आत्मनः स- काशात्कामस्य तनुच्छायतयाल्पशोभत्वेन जेतुं नाशकत्, अपि तु शशाकैव । तस्याल्प- कान्तित्वमात्मनोऽधिककान्तित्वमेव जय इत्यर्थः । पूर्वं तस्यातिशयितं धैर्यं वर्णयित्वा तन्नाशकथनं विप्रलम्भपोषार्थम् । लङ्घितुमिति शकियोगे तुमुन्1 ।

उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम् ।
त्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥४॥

 उर इति ॥ सा तन्वी कृशाङ्गी (स्वीया) त्रपैव सरिन्नदी तस्या दुर्गं प्राकारमपि, त्रपास- रिदेव दुर्गं वा । प्रतीर्य तीर्वा नलस्य हृदयं यद्विवेश प्रविष्टा । यद्वा नलस्यैव त्रपास- रिद् दुर्गम् । तदुरोभुवा वक्षस्थलजेन कुम्भयुगेन कुचकलशयुगेन जृम्भितं विलसितम्। किमुत्प्रेक्षायाम् । किंभूतेन-नवोपहारेण नवो नूतन उप समीपगतो हारो मुक्ताहारो यस्य, नव उपहार उपायनं तद्रूपेण वा । वयसा यौवनेन कृतं वयस्कृतं तेन । तेन ल- ज्जां त्यक्त्वा संपन्नयौवना भैमी ध्याता इत्यर्थः । अन्यापि कुम्भकारकृतमुपढौकितं कु- म्भद्वयं वक्षसि निधाय जलदुर्गं तीर्त्वा प्रियसंकेतं गच्छति । यच्छब्दोऽप्यर्थः । सा त- न्व्यप्युरोभुवा कुम्भयुगेन त्रपासरिदुर्गमपि प्रतीर्य नलस्य हृदयमपि विवेश, किमि- ति वितर्क इति वान्वयः । किंभूतं दुर्गम्-जृम्भितम् । अत्युच्चमित्यर्थः । अन्यत्पूर्व- वत् । 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । उरोभुवा इति भाषितपुंस्कत्वेन नुमभावः । कुम्भयुगेनेति कर्तरि तृतीया2 ।


१ 'अत्र स्मरलङ्घने पितामहोऽप्यशक्तः किमुत नल इत्यर्थापत्तिस्तावदेकोऽलंकारः । तनोश्छायेव छाया इत्युपमा । छाययोरभेदाध्यवसायादतिशयोक्तिः । अलङ्घयत्वे तनुछायताया हेतुत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा । साच शङ्के इति व्यञ्जकप्रयोगाद्वाच्येति' इति जीवातुः। 'अत्रातिशयोक्तिरुत्प्रेक्षा श्लेषश्चालंकारः' इति साहित्यविद्याधरी। २ 'अत्रोत्प्रेक्षा रूपकं श्लेषश्चालंकारः' इति साहित्यविद्याधरी । 'अत्र वि. षयनिगरणादभेदाध्यवसायादतिशयोक्तिः । जृम्भणं किमित्युत्प्रेक्षा । सा चोक्तातिशयोक्तिमूला इति संकरः इति जीवातुः।