पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीयचरितस्य , साक्षासति, असत्यं प्रबन्धं हस्ते न्यस्तमवकरनिकरमिव दूरे क्षिपति, सत्यं तु मूर्धधूनन- पूर्व सुष्ठित्यूरीकरोति । उपरितः पुष्पाणि पतन्ति' । श्रीहर्षी राजदत्तार्थनिष्पन्नविपुलसामग्रीकः काश्मीरानगमत् , तत्रत्यपण्डितेभ्योऽदर्शयत् , । स्वकीयं सरस्वतीहस्ते पुस्तकं न्यास्थत् । सर- स्वत्या दूरे क्षिप्तं तत् । श्रीहर्षेणोक्तं-'किं जरतीति विकलासि यन्मदुक्तमपि प्रबन्धमितर- प्रबन्धमिवावमन्यसे' । भारत्याह-'भोः परमर्मभाषक, न स्मरसि । यदत्रोक्तं त्वयैकादशे सर्गे चतुःषष्टितमे काव्ये- 'देवी पवित्रितचतुर्भुजबामभागा वागालपत्पुनरिमां गरिमाभिरामाम् । एतस्य निष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥' एवं मां विष्णुपत्नीत्वेन प्रकाश्य लोके रूढं कन्यात्वं लुप्तवानसि । ततो मया पुस्तकं क्षितम् । 'या(पा)बको बञ्चको व्याधिः पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च प्रायेणोद्वेगकारकाः ॥' इति, वाग्देवीवाचं श्रुत्वा श्रीहर्षो वदति-'किमर्थमेकस्मिन्नवतारे नारायणं पतिं चक्रुषी त्वं, पुरा- णेष्वपि विष्णुपत्नीति पठ्यसे, ततः सत्ये किमिति कुष्यसि । कुपितैः किं छुव्यते कलङ्कात्' इति । स्वयं गृहीत्वा पुस्तकं हस्ते धारितम् । ग्रन्थश्च श्लाघितः सभासमक्षम् । श्रीहर्षेण पण्डिता उ- क्तास्तत्रत्याः–'ग्रन्थमत्रत्याय राज्ञे माधवदेवनाम्ने दर्शयत, श्रीजयन्तचन्द्राय च 'शुद्धोऽयं ग्रथः' इति लेखं प्रदत्त' इति । भारत्यभिमते ज्ञातेऽपि ते न लेखं ददते, न भूपं दर्शयन्ति । स्थितः श्रीहर्षो बहून्मासान् । जग्धं पाथेयम् । विक्रीतं वृषभादि । मितीभूतः परिच्छदः । एकदा नद्यासन्नदेशे कूपतटासन्नदेशे देवकुले रुद्रजपं रहः करोति । तत्रागते कयोश्चिद्गृहिणोरुल्लुण्ठे (?) चेव्यौ ज- लप्रथमपश्चाद्रहणघटभरणविषये वादे लग्ने तयोश्चिरमुक्तिप्रत्युक्तिरभूत् । शीर्षाणि स्फुटितानि घातप्रतिघातैः । गते राजकुलम् । राजा साक्षिणं गवेषयति । उक्ते ते--अत्र कलहे कोपि साक्षी विद्यते न वा ? । ताभ्यां जगदे-'विप्रस्तत्रैक आस्ते ज- पतत्परः' । गता राजकीयाः । आनीतःश्रीहर्षः । पृष्टस्तयोर्नयानयौ । श्रीहर्षेण गीर्वाणवाण्योक्तं- 'देव, वैदेशिकोहं न वेद्मि, किमप्येते प्राकृतवादिन्यौ ब्रूतः । केवलं ताञ्छब्दान् वेद्मि' । राज्ञोक्तम्-(तर्हि तानेव वद)। तत्क्रमस्थमेव तद्भाषितप्रतिभाषितशतमभिहितमनेन । राज्ञा चमत्कृतः । अहो प्रज्ञा । अहो अवधारणा । दास्योर्वादं निर्णीय यथासंभवं निग्रहानुग्रही कृत्वा प्रहित्य श्रीहर्षमपृच्छद्राजा-'कस्त्वमेधि शिरोमणिः' । श्रीहर्षेणोक्तं सर्वं कथानकम् । रा- जन्पण्डितकृतदौर्जन्यात्तव पुरे दुःखी तिष्ठामि । सम्यक् पारम्पर्याज्ञा ( ? ) राजा पण्डिताना- हूय अवादीत्--'धिङ् मूढाः. ईदृशे रने न स्निपथ १ नारायणोपलब्धपुस्तकेषु “कल्लोलजाल'-(४१) 'त्वद्रूपसपद'-- (४२) श्लोकावधिको वर्तेते अत एतत्पुस्तके 'षट्षष्टितमे' इति बोध्यम् ॥ "