पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६८
नैषधीयचरिते

 नेति ॥ अस्य राजहंसस्य राजसु श्रेष्ठस्य प्रियतमात्यन्तमभिमता कीर्तिः श्वेततां शु- भ्रतां कथं न चरतु गच्छतु । अपितु गच्छत्वेव । तथा-भुवनेषु लोकत्रयेऽपि कथं न गच्छतु । लोकत्रयमपि व्याप्नोत्येव । यद्वा-कथं न श्वेततां श्वेता भवतु । अपितु श्वेता भवत्वेव । त्रैलोक्ये चरत्वेव । हंसस्यापि प्रियतमा योषिदपि श्वेता भवति । तथा-भुवनेषूदकेषु वा क्रीडति विषादि भक्षयति वा अत्र नाश्चर्यम् । विशदिम्नो धवलताया अद्वैतं ऐक्यमादिशन्ती त्रैलोक्यं श्वेतीकुर्वती क्षीरं दुग्धं चाम्बु च मिथः परस्परस्मात्पृथक् नातनोति भिन्नं न करोति इदं तु चित्रम् । हंसी हि मिश्रं क्षीरनीरं विविक्तं करोति इयं तु तयोरभेदं करोतीत्याश्चर्यम् । अतिशुभ्रा त्रैलोक्यव्यापिनी चास्य कीर्तिः, वदान्यश्चायमिति भावः । अद्वैते चाभेद एव युक्तः। 'जीवनं भुवनं वनम् । विष्टपं भुवनम्' इत्यमरः। पक्षे 'श्विता वर्णे' इत्यस्माल्लोटस्तं[१]ङ् ॥

शूरेऽपि सूरिपरिषत्प्रथमार्चितेऽपि
 शृङ्गारभङ्गिमधुरेऽपि कलाकरेऽपि ।
तस्मिन्नवद्यमियमाप तदेव नाम
 यत्कोमलं न किल तस्य नलेति नाम ॥ ३२॥

 शूर इति ॥ इयं भैमी तस्मिन्राज्ञि तदेवावद्यं दूषणं नामेति प्रसिद्धौ । आप। तत्किम्यत्तस्य सवनस्य किलेति प्रसिद्धं नल इत्यामन्त्रणयोग्यं संबुद्ध्यन्तं कोमलं मधुराक्षरं नाम नास्तीत्येतदेव दूषणम् । किंभूते-शूरेऽपि । तथा-सूरिपरिषदि विद्वत्सभायां प्रथमाचितेऽपि प्रथमगण्येऽपि । तथा-शृङ्गारभङ्गया शृङ्गाररचनया मधुरे मनोज्ञेऽपि । तथा-कलानां गीतादिचतुःषष्टिकलानामाकरेऽपि । शौर्यपाण्डित्यगृङ्गारित्वकलाकौशलादिगुणयुक्तेऽपि । वरगुणेषु सत्स्वपि नलेऽनुरागात्तं नावरीष्टेति भावः ॥

भ्रूवल्लिवेल्लितमथाकृतिभङ्गिमेषा
 लिङ्गं चकार तदनादरणस्य विज्ञा।
राज्ञोऽपि तस्य तदलाभजतापवह्नि-
 श्चितीबभूव मलिनच्छविभूमधूमः ॥ ३३ ॥

 भ्रूवल्लीति ॥ अथ विज्ञा ज्ञात्री एषा भैमी तदनादरणस्य सवनानादरणस्य लिङ्गं चिह्नं भ्रूवल्लिवेल्लितं भ्रूलताचेष्टितमेवाकृतिभङ्गिमाकारविच्छित्तिम् । यद्वा पूर्वं भ्रूवल्लिचेष्टितं अथानन्तरं आकृतिभङ्गिमङ्गमोटनं च चकार । भ्रूचलनेनाङ्गमोटनेन च तं निराचकारे-


  1. स चाविवेको धावल्यगुणतो, न स्वरूपत इति विरोधसमाधानाद्विरोधाभासोऽलंकारः । तथा-'विशदिमाद्वयमादिशन्ती' इत्यनेन सामान्यालंकारः । तस्य विशेषणगत्या क्षीरनीराविवेकहेतुत्वात्पदार्थहेतुकं काव्यलि-ङ्गम् । पूर्वार्धे च श्वैत्यभुवनचारित्वराजहंसप्रियतमात्वाख्यश्लिष्टौ श्लिष्टप्रस्तुतकीर्तिविशेषणसाम्यादप्रस्तुतराजहंस- प्रतीतेः श्लेषसंकीर्णार्थसमासोक्तिरित्यतैस्त्रिभिः सहाङ्गाङ्गिभावेन पूर्वोक्तस्य विरोधाभासस्य संकरः' इति जीवातुः