तद्विस्फुरत्फणविलोकनभूतभीतेः |
तदिति ॥ उरगाधिपतिः विलक्षः सलज्जः सन् स्वभृत्यान्स्वसेवकान्नृत्यान्नतितुमर्हाद्धस्तकादिपदार्थात्सकाशान्न्यवारयत् । किंभूतान्स्वभृत्यान्-तस्य वासुकेः विस्फुरतः फणस्य विलोकनाद्भूता संजाता या भीतिः तस्याः सकाशात्तस्याः कम्पं समीक्ष्य, ततोनु अनन्तरम् । अविलम्बितमित्यर्थः । पुलकं च समीक्ष्य, संजाता सात्त्विकविकारसंबन्धिनी धीर्बुद्धिः येषां तान् । भैम्याः कम्पं पुलकं च दृष्ट्वा अस्मत्स्वामिन्यनुरक्तेयमिति विचार्य नृत्यं कुर्वत इत्यर्थः । तद्विस्फुरत्-' इति तस्या विशेषणं वा । भूता भीतिर्यस्या इति विग्रहः । स्वाम्यभिलाषे पूर्णे भृत्या नृत्यन्ति । 'भयेनास्याः कम्पादि प्रवृत्तम् , न त्वनुरागादिति नृत्तं मैवं कृतमिति न्यषेधदित्यर्थः । भृत्यमौर्ख्यात्, भैम्या चावृतत्वात्सलज्जत्वम् । 'फणा द्वयोः' इति फणशब्दः पुंलिङ्गेऽपि । ततोनु निपातसमुदायः । नृत्यात् , ऋदुपधात्क्यप्[१]॥
तद्दर्शिभिः स्ववरणे फणिभिर्निराशै- |
तद्दर्शिभिरिति ॥ तद्दर्शिभिरवृतस्वामिविलोककैर्वासुकिवैलक्ष्यदर्शिभिर्वा अत एव स्ववरणे निराशैः फणिभिः कर्कोटकादिभिः निःश्वस्य फूत्कृत्य तत् किमप्यपूर्वमनात्मनीनं स्वीयमहितं सृष्टं कृतम् । यत् तान्सर्पान्प्रयातुमनसोऽपि गन्तुकामा अपि विमानवाहाः प्रतीपपवनः प्रतिकूलवातः तद्रूपं यदशकुनं तस्माद्धेतोः हा हा कष्टं अशुभमेतदिति कृत्वा न जग्मुः। प्रतिकूलस्य बाहोरशकुनत्वात्सर्पसंमुखं न जग्मुः । अयोग्यत्वान्न गता इति भावः । आत्मने हितमात्मनीनम् , 'आत्मविश्वजन-' इति खः ॥
ह्रीसंकुचत्फणगणादुरगप्रधाना |
- ↑ 'अत्र भृत्यानां भैमीभयसात्त्विकेषु शृङ्गारभ्रान्त्या भ्रान्तिमदलंकारः' इति जीवातुः।