पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६३
एकादशः सर्गः।

यम् । कंकणमपि रत्नै रमणीयं भवति । त्वममुं भज । किंभूतम्-भूतभर्तुः शिवस्य कोटीरबन्धनं जटाजूटबन्धनं धनुर्गुणः धनुर्ज्या योगपट्टश्च नेपां व्यापारस्य भवनलक्षणस्य पारगं तत्र कुशलम् । कोटीरबन्धनं धनुर्गुणयोगपट्टीभूतम् । मनोहरमणिः सुन्दरफणरत्नमिति वा । हरस्य कोटीरादिविशेषणेन वरणाभावः सूचितः[१]

धृत्वैकया रसनयामृतमीश्वरेन्दो-
 रप्यन्यया त्वदधरस्य रसं द्विजिह्वः ।
आस्वादयन्युगपदेष परं विशेषं
 निर्णेतुमेतदुभयस्य यदि क्षमः स्यात् ॥ १९ ॥

 धृत्वेति ॥ जटाजूटसंबन्धादेकया रसनया जिह्वया ईश्वरस्येन्दोश्चन्द्रस्यामृतं धृत्वा अन्यया द्वितीयया त्वद्धरस्य रसमपि धृत्वा चन्द्रामृतमोष्ठामृतं च युगपदेककालमास्वादयन्पिबन् एतदुभयस्य चन्द्रामृतौष्ठरसलक्षणस्य द्वयस्य परं विशेषं तारतम्यं निर्णेतुं निश्चेतुं यदि क्षमः समर्थः स्यात्तर्हि अयमेव वासुकिरेव । नान्य इत्यर्थः । यतो द्विजिह्वः द्वे जिह्वे यस्य । युगपदास्वादने हेतुः । परं सूक्ष्मं विशेषं वा तर्हि परं केवलं वा इत्यन्वयः। राज्ञां वरणयोग्यत्वेऽपि चन्द्रामृतसंबन्धस्यासंभवाद्देवानां तत्पानसंभवे द्विजिह्वत्वासंभवात्समकालं पानासंभवात् , सर्पाणां द्विजिह्वत्वसंभवेऽपि चन्द्रामृतसंबन्धाभावात् , एतस्य तूभयसंभवाद्वयोर्विशेषनिर्णयेऽयमेव क्षमो नान्य इत्यर्थः ॥

आशीविषेण रदनच्छददंशदान-
 मेतेन ते पुनरनर्थतया न गण्यम् ।
बाधां विधातुमधरे हि न तावकीने
 पीयूषसारघटिते घटतेऽस्य शक्तिः ॥ २० ॥

 आशीति ॥ 'आशी तालुगता दंष्ट्रा तया विद्धो न जीवति' इति वृद्धाः। आश्यां विषं यस्यैवंभूतेन एतेन वासुकिना कृतं रदनच्छददंशदानं त्वदधरखण्डनं ते त्वयानर्थतयापमृत्युहेतुतया पुनर्न गण्यं न संभावनीयम् । एतस्य वरणे चुम्बने विषसंचारादपमृत्युभयेनैनं न वृणे इति न शङ्कनीयम् । हि यस्मात् पीयूषसारघटितेऽमृतसारसृष्टे त्वदीयेऽधरे बाधां विधातुं अस्य दन्तच्छदस्य वासुकेर्वा शक्तिः सामर्थ्यं न घटते युज्यते । अमृते हि विषं न प्रभवतीत्यर्थः । आशिषि दंष्ट्रायां विषं यस्येति सकारान्तस्य पृषोदरादित्वात्सलोपो वा । ते, 'कृत्यानाम्-' इति षष्ठी । गण्यं, गणयतेर्यत् ॥


  1. 'अत्रैकस्य वासुकेरनेकेषु कोटीरादिषु क्रमेण वृत्तेः पर्यायभेदः । अथानुभावविशेषाद्यौगपद्यासंभवे तु समुच्चयः' इति जीवातुः