आलोकनाय दिवि संचरतां सुराणां
तत्रार्चनाविधिरभूदधिवासधूपैः ॥ ४ ॥
कुर्वद्भिरिति ॥ तत्र स्वयंवरदेशे आलोकनाय दिवि संचरतां सुराणामधिवासार्थं सौगन्ध्यार्थ ज्वालितैः कामशरादिरूपैः कृत्वा अर्चनाविधिः पूजाविधानमभृत् । किं-
:-भूपालानां चक्रं तस्य चलानि चामराणि तेषां मारुतीर्घ वायुसङ्घं आत्मभवसौरभ्यसंप्रदानं दानपात्रं कुर्वद्भिः । चलञ्चामरवायुवशाद्गगनचारिभिधृपदेवाः परितुष्टा बभूवुरि[१]त्यर्थः॥
तत्रावनान्द्रचयचन्दनचन्द्रलप- |
तत्रेति ॥ तत्र स्वयंवरदेशे भृङ्गवर्गः भ्रमरसङ्घः सौरभं सौगन्ध्यमगाहत बुभुजे । किं कृत्वा-अवनीन्द्रचयस्य राजसमूहस्य चन्दनचन्द्रः चन्दनयुक्तः कर्पूरः । बहुकर्पूरं चन्दनमिति यावत् । तेन कृतं लेपनेपथ्यमङ्गरागभूषणं तस्य गन्धवहः सौगन्ध्यवाही गन्धवहो वायुस्तस्य प्रवाहं सङ्घं आलीभिः स्वपतिभिः संरुध्य कुत्रचिद्गन्तुमदत्त्वा । किंभूतः-आपतन्त आगच्छन्तो येऽनङ्गशरास्ताननुसरत्यनुकरोति एवंशीलः ! आपतन्तः स्वर्गात्पतन्तः कामशराः पुष्पाणि तदनुगामी वा । सौगन्ध्यबाहुल्यात्सर्वत्र भ्रमरा विचरन्ति स्मेति भावः । अन्योऽपि वस्त्रादिना वायु संरुध्य सौरभ गाहते। बद्धप ङ्क्तीनां भ्रमराणां दैर्घ्यात्कामोद्दीपकत्वाच्च कामबाणतुल्यत्वम्[२] ॥
उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गी- |
उत्तुङ्गेति ॥ सौधरजः धवलगृहप ङ्क्तयः प्लुतपताकतया चलत्पताकतया जनेषु । जनानां समीप इत्यर्थः । निजताण्डवपण्डितत्वं स्वीयनृत्तचातुर्यमभिनिन्युरभिनयेन दर्शयामासुरित्यहं मन्ये । किंभूताः-उत्तुङ्गोऽतितारः मङ्गलमृदङ्गनिनादो विवाहमर्दलध्वनिः तस्य भङ्ग्यः प्रकारविशेषाः तासां सर्वः सकलोऽनुवादविधिरनूच्चारणविधिः । स-