णाक्षणा भैमी निमालयन्तीम् । अथ च -देवतात्वात्स्वभावादेव निमेषरहितेन नेत्रेण रसात्स्नेहेन भक्तं विलोकयन्तीम्[१] ॥
तन्निर्मलावयवभित्तिषु तद्विभूषा- |
तदिति ॥ तैर्युवभिः सुतनौ भैम्यां परं केवलं दृष्ट्या ममजे निमग्नमिति न । तथा- केवलं हृदयेन निमग्नमिति न। किंतु तस्याः निर्मलावयवभित्तिषु निर्मलाङ्गकुड्येषु तद्विभूषारत्नेषु च प्रतिफलन प्रतिविम्वितो निजदेहः तस्य दम्भाद्व्याजात् सर्वात्मनैव सर्वेणापि शरीरेण निमग्नम् । तेषां नयनमानसे एव तदायत्ते जाते इति न । किंतु सर्वमपि शरीरं तदायत्तं जातम् । तदीयावयवभूषारत्नेषु सर्वेषामपि शरीराणि प्रतिफलितानीति भावः । सर्वेऽपि सर्वथा तत्परवशा जाता इत्यर्थः । निर्मलत्वावयवेष्वपि प्रतिबिम्बो युक्तः । भित्तिशब्दः प्रशंसाओं वा[२] ॥
द्यामन्तरा वसुमतीमपि गाधिजन्मा |
द्यामिति ॥ गाधिजन्मा विश्वामित्रः द्यां वसुमतीमपि अन्तरा स्वर्गभूम्योर्मध्ये यदि अन्यमेव नाकलोकं निरमास्यताकरिष्यत तर्हि स स्वर्गलोको यादृक् यादृशः चारुः सुन्दरोऽभविष्यत्, तर्हि स्वयंवरमवलोकितुमागतानां देवादीनां विमानैः कृत्वा तत् स्वयंवरदेशात् उपरि वर्तमानं अभ्रं गगनं तादृक्तादृशमभूत् ॥ गाधिजो यदि स्वर्गमर्त्यमध्येऽन्यं स्वर्गमकरिष्यत्तर्हि भुवि उत्कृष्टानि विमानानि भैमीवरणार्थंभूमिमागतानां देवानां विमानानि तानि न भवन्ति अमूनि विमानानि अन्तरिक्षगानि । तैर्विमानैः कृत्वा तद्गगनं यादक चारु, तादृगभविष्यदिति वा । अन्तरिक्षनिर्मितस्वर्गतुल्यं तदाकाशमभूदिति भावः । पूर्वव्याख्याने विश्वामित्रोऽभूदित्यत्र क्रियातिपत्तौ लङ् न, तावन्मात्रक्रियातिपत्तेः पर्यवसानात्[३] ॥
कुर्वद्भिरात्मभवसौरभसंप्रदानं
भूपालचक्रचलचामरमारुतौघम् ।