र्यम् । मया एषां जगतीपतीनां राज्ञां विचित्रं गोत्रं चरित्रं च निगाद्यं गदितुमर्हम् । मोदितुम् , 'कालसमयवेलासु तुमुन्' इति तुमुन् । अलं विषद्य 'अलंखल्लोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वा । ततः क्त्वो ल्यप् ॥
अविन्दतासौ मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे ।
अत्रावतीर्णा गुणवर्णनाय राज्ञां तदाज्ञावशगाऽस्मि कापि ॥८९॥
अविन्दतेति ॥ असौ मन्दाकिनी यस्य श्रीविष्णोः चरणारविन्दे मकरन्दलीला पुपरसशोभामविन्दत प्राप । कमले हि मकरन्दो युक्तः। तस्य श्रीविष्णोराज्ञावशगा निदेशकारिणी कापि राज्ञां गुणवर्णनायात्र स्वयंवरेऽवतीर्णा । तेन प्रेषिता तदाज्ञया च मम सामर्थ्यमपि युक्तमित्यर्थः। कापीत्यनेन मदद्धिकास्तन्निदेशकारिण्यो बह्वयः सन्तीति स्वनाम्नोऽकथनीयत्वं च सूचितम् । “विन्दत्यसव्ये' इति पाठे-असव्ये दक्षिणपादे विन्दति लभ[१]ते ॥
तत्कालवेद्यैः शकुनस्वराद्यैराप्तामवाप्तां नृपतिः प्रतीत्य ।
तां लोकपालैकधुरीण एष तस्यै सपर्यामुचितां दिदेश ॥ ९० ॥
तत्कालेति ॥ लोकपालानामेकधुरं वहतीति लोकपालतुल्य एष नृपतिस्तस्यै देव्यै उचितां योग्यां सपर्यामर्घादिपूजां दिदेशाकृत । किं कृत्वा-तत्कालवेद्यैः तदागमनशकुनस्वराद्यैः काकस्वरादिशकुननासिकास्वरदक्षिणचक्षुःस्पन्दाद्यैः कृत्वा तां देवीमाप्तामभीष्टां अवाप्तां प्राप्तां प्रतीत्य ज्ञात्वा । एकधुरीणः 'एकधुराल्लुक् च' इति खः। आप्तागमनसमये भुजस्पन्दादयो भवन्ति ॥
दिगन्तरेभ्यः पृथिवीपतीनामाकर्षकौतूहलसिद्धविद्याम् ।
ततः क्षितीशः स निजां तनूजां मध्येमहाराजकमाजुहाव ॥ ९१॥
दिगिति ॥ ततो देवीसपर्यानन्तरं स क्षितीशः निजां स्वीयां तनूजां भैमीं मध्येमहाराजकं. राजसमूहमध्ये आजुहावाकारयति स्म । किंभूतां तनूजाम्-दिगन्तरेभ्यो दिक्प्रान्तेभ्यः सकाशात्पृथिवीपतीनामाकर्ष आकर्षणं तद्विषयं यत्कौतुहलं तस्य सिद्धविद्यां जपादिपुरश्चरणेनात्मवशीकृतमन्त्ररूपां स्वसौन्दर्येण सर्वाकर्षणकारिणीम् । राजन्-शब्दाद्वुञि 'महच्च तद्राजकं च' इति कर्मधारय एव । आजुहाव अभ्यस्तस्य च' इति संप्रसारणम् ॥
दा[२]सीषु नासीरचरीषु जातं स्फीतं क्रमेणालिषु वीक्षितासु।
स्वाङ्गेषु रूपोत्थमथाद्भुताब्धिमुद्वलयन्तीमवलोककानाम् ॥९२॥