पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३९
दशमः सर्गः ।

मालपन्नतिलकचित्रकाणि विशेषकम्' इत्यमरः । अत्र नागरलिप्या ओंकार ज्ञातव्यः । 'कोणो वीणादिवादनम्' इति कोणशब्देनैव गतार्थत्वात्पूर्वपदंप्रशंसार्थत्वादपुनरुक्तम् । पूर्वपदेनैव गतार्थत्वात्कोणपदं धनुःप्रशंसार्थम्[१]

  द्विकुण्डली वृत्तसमाप्तिलिप्या कराङ्गुली काञ्चनलेखनीनाम् ।

  कैश्यं मषीणां मितभा कठिन्याः काये यदीये निरमायि सारैः॥

 द्विकुण्डलीति ॥ विधिना यदीये काये वृत्ता वर्तुला या समाप्तिज्ञापिका लिपिविसर्गलिपिः मातृकाग्रन्थस्य समाप्तिलिपिर्वा तस्याः सारैः श्रेष्टभागः कृत्वा द्विकुण्डली निरमायि निर्मिता । तथा-काश्चनलेखनीनां सुवर्णमयलेखनीनां सारैः कराङ्गुली निमिता । मषीणां सारैः केशानां समूहः कैश्यं निर्मितम् । तथा-कठिन्याः खटिकायाः सारैः स्मितस्य भा शोभा निर्मिता । सर्वेषां तत्तदाकारत्वात्तदीयैरेव सारैर्निमितानीत्यर्थः । कराङ्गुलीति जातावेकवचनम् । यदुक्तम्-'शृङ्गवह्वालवत्सस्य वालिकाकुचयुग्मवत् । नेत्रवत्कृष्णसर्पस्य स विसर्ग इति स्मृतः' इति । 'खटिकायां तु कठिनी' इति विश्वः । कैश्यं समूहार्थे 'केशाश्वाभ्यां यच्छावन्यतरस्याम्' इति यञ्[२]

  या सोमसिद्धान्तमयाननेव शून्यात्मतावादमयोदरेव ।

  विज्ञानसामस्त्यमयान्तरेव साकारतासिद्धिमयाखिलेव ॥८७॥

 येति ॥ या सरस्वती सोमसिद्धान्तः कापालिकदर्शनं तन्मयं तद्रूपम् । अथ च चन्द्रस्य याथार्थ्यं पूर्वपक्षभूतस्य पूर्णिमाजातस्य वा चन्द्रस्य सिद्धान्तरूपं दूपकरूपमाननं यस्या एवंभूतेव । तथा -शून्यात्मतावादो माध्यमिकदर्शनं तन्मयं तद्रूपमुदरं यस्याः सेव । आत्मानो न सन्तीति शून्यात्मतावादो बौद्धसिद्धान्तः । तथा-विज्ञानस्य विशिष्टज्ञानस्य सामस्त्यं संपूर्णत्वं तन्मयं तत्प्रचुरमान्तरं चित्तं यस्या एवंभूतेव । तथा-साकारविज्ञानवादी सौत्रान्तिकः । विज्ञानस्य साकारतासिद्धिस्तद्दर्शनम् । अथ -सौन्दर्यलाभप्रचुरम् । अखिलं समस्तं रूपं यस्या एवंभूतेव । सोमसिद्धान्तादिदशनैर्यदीया मुखाद्यवयवा निर्मिताः। चन्द्रानना,ऽतिकृशोदरी, सर्वविज्ञानमयी, अतिसुन्दरी चेति भावः । इवशब्द उत्प्रेक्षायाम् । वाक्यालंकारे वा । एवंभूता मध्येसभमवततारेत्यादि कुलकम् । शून्यात्मतेत्यादिषु 'नासिकोदर-' इति वा ङीष्[३]

  भीमस्तयागद्यत मोदितुं ते वेला किलेयं तदलं विषद्य ।

  मया निगाचं जगतीपतीनां गोत्रं चरित्रं च विचित्रमेषाम् ॥८८॥

 भीम इति ॥ तया देव्या भीम इत्यगद्यत उक्तः । इति किम्-इयं वेलायं समयस्ते मोदितुं हर्षं प्राप्तुमुचितः किल यस्मात् , तत्तस्माद् विषद्य विषादं कृत्वालं दुःखं न का-


  1. 'अत्र छेकानुप्रासातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिदीपकालंकारः' इति साहित्यविद्याधरी
  3. 'अत्र अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।