पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
प्रथमः सर्गः

पूर्व श्लोकपञ्चकेन भैम्या नले श्रवणानुरागं प्रतिपाद्य इदानी लिपिस्वप्नादौ दर्श- नानुरागं प्रतिपादयति-

प्रियं प्रियां च त्रिजगज्जयिश्रियौ लिखाधिलीलागृहभित्ति कावपि ।
इति स्म सा कारुवरेण लेखितं नलस्य च स्वस्य च सख्यमीक्षते३०

 प्रियमिति ॥ सा भैमी इति स्वाज्ञया कारुवरेण कुशलेन लिपिकर्त्रा प्रयोज्येन लि- खितं नलस्य स्वस्यात्मनश्च सख्यं रूपसाम्यमीक्षते स्म पश्यतिस्म । इतीति किम्- हे कारुवर, त्वमधिलीलागृहभित्ति लीलागृहं क्रीडागृहं तस्य भित्तौ (विभक्त्यर्थे- ऽव्ययीभावः) प्रियं नायकं प्रियां नायिकां चोभौ कावण्यनिर्दिष्टनामानौ लिख । किंभूतौ-त्रिजगज्जयिश्रियौ त्रयाणां जगतां समाहारस्त्रिजगत् , तज्जयतीत्येवंशीला श्रीः शोभा ययोः । जगत्रय्यामावामेव सुन्दरौ इति । जगजयीत्यत्र 'जिदृक्षि-' इतीनौ पुंवद्भावः॥

मनोरथेन स्वपतीकृतं नलं निशि क्व सा न स्वपती स्म पश्यति ।
अदृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम् ॥ ३९ ॥

मनोरथेनेति ॥ स्वपती निद्राणा सा भैमी मनोरथेन वाञ्छया स्वपतीकृतम् अस्व- पतिः स्वपतिः कृतः स्वप्राणेश्वरीकृतं नलं क्व निशि कस्यां रात्रौ न पश्यति स्म, अपि- तु सर्वस्यामपि । दिवा दृष्टस्य स्वप्ने दर्शनात्कदादृष्टस्य कथं दर्शनमित्यर्थे हेतुमाह- अदृष्टमिति-सुप्तिः स्वप्नः कदाचिददृष्टमप्यर्थं वस्तु अदृष्टवैभवाद्धर्माधर्मसामर्थ्या- ज्जनदर्शनातिथिं जनदर्शनगोचरं करोति । 'यदृष्टं दृश्यते स्वप्नेऽननुभूतं कदापि न' इति न्यायेन जन्मान्तरस्थानान्तरानुभूतं समुत्पन्नसंस्कारमस्मिञ्जन्मन्यदृष्टमप्यर्थं धर्माध- र्मावेव दर्शयते इति भावः । चित्रादौ नलदर्शने सत्यपि साक्षात्तदर्शनाभावाददृष्टत्वो- क्तिर्युक्ता । 'साक्षाच्चित्रे तथा स्वप्ने तस्य स्यादर्शनं त्रिधा' इति । अत्र तूत्तरं प्रकारद्वयम् ॥

निमीलितादक्षियुगाच्च निद्रयाहृदोऽपि बाह्येन्द्रियमौनमुद्रितात् ।
अदर्शि सङ्गोप्य कदाप्यवीक्षितो रहस्यमस्याः स महन्महीपतिः४०

 निमीलितादिति ॥ निद्रयैव सुषुप्त्यैव स महीपतिर्नलोऽस्या भैम्या महद्रहस्यमदर्शि दर्शितः । किंभूतः-कदापि जाग्रत्स्वप्नावस्थयोरपि एवंरूपत्वेनावीक्षितोऽदृष्टः। किं कृत्वा निमीलितान्मुद्रितादक्षियुगान्नेत्रद्वयात्संगोप्य संयम्य गोपयित्वा । तथा बाह्ये- न्द्रियमौनमुद्रिताबाह्येन्द्रियस्य चक्षुरिन्द्रियस्यैव मौनेन स्वविषयग्रहणाभावेन मुद्रि- ताद्रूपलक्षणस्वविषयग्रहणेऽशक्ताद्धृदोऽपि मनसोऽपि संगोप्य । अक्षियुगमनसो- रपि ज्ञातुमदत्वापीति यावत् । चशब्दापिशब्दावन्योन्यसमुच्चये । महारहस्यत्वेन निरतिशयानन्दरूपत्वेन निद्रया भैम्यै साक्षात्प्रदर्शित इत्यर्थः । ननु सुषुप्तौ मनसो-


१ 'छेकानुप्रासहेत्वलंकारः' इति साहित्यविद्याधरी। 'सामान्येन विशेषणसमर्थनरूपोऽर्थान्तरन्यासः' इति जीवातुः।