पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३८
नेषधीयचरिते

पत्रं नागवल्लीदलं खण्डयितुं तैर्विना व शक्तिः प्रभुत्वं सामर्थ्यम् । अपि तु न । तर्कबलेन विना पत्रादिखण्डनं कर्तुमशक्यमित्यर्थः । गुणैः कषायादिभिः शालते इति ईदृशं पूगं खण्डयितुं वा व शक्तिः । नहि दन्तहीनेन पर्णानि पूगानि च भक्षयितुं शक्यन्ते । अथ च वादतो वादेन गुणशालिनां विदुषां पूगं वृन्दं खण्डयितुं क सामर्थ्यम् । ‘पदादयः पृथक्शब्दाः' इति मतेन न विद्यन्ते दतो दन्ता यस्य दन्तरहितस्य नञा बहुव्रीहिणा द्वितीयपक्षे व्याख्येयम् । दन्तानां कर्कशत्वात्कर्कशैस्तर्कैनिर्माणस्य युक्तत्वम् । 'पूगः क्रमुकवृन्दयोः' इत्यमरः[१]

  सपल्लवं व्यासपराशराभ्यां प्रणीतभावादुमयीभविष्णु ।

  तन्मत्स्यपद्माद्युपलक्ष्यमाणं यत्पाणियुग्मं ववृते पुराणम् ॥ ८३ ॥

 सपल्लवमिति ॥ पुराणं तत्प्रसिद्धं यस्याः पाणियुग्मं ववृते जातम् । किंभूतम्-सप- ल्लवं कथाख्यायिकादियुक्तम् । अथ च शृङ्गारम् । अलक्तकरागतुल्यमित्यर्थः । कि- सलयसदृशं वा । तथा–व्यासपराशराभ्यां मुनिभ्यां प्रणीतभावान्निर्मितत्वादुभयी- भविष्णु पुराणोपपुराणतां प्राप्त मत्स्यकूर्मपद्मवाराहादिपदैरुपलक्ष्यमाणं निर्दिश्यमा- नम् । अथ च रेखारूपमत्स्यपद्मचक्रादिसामुद्रकलक्षणैर्लक्ष्यमाणम् । पुराणमेव करयुगा- कारेण परिणतमित्यर्थः। तत्पुराणमिति वा । सपल्लवमिति पक्षे सादृश्येऽव्ययीभावः[२]

  आकल्पविच्छेदविवर्जितो यः स धर्मशास्त्रवज एव यस्याः।

  पश्यामि मूर्धा श्रुतिमूलशाली कण्ठस्थितः कस्य मुदे न वृत्तः ॥

 आकल्पेति ॥ य आकल्पं विच्छेदविवर्जितः प्रलयपर्यन्तमुच्छेदरहितः। अथ च आकल्पोऽलंकारः, तत्सहितः सर्वदा सालंकारः स धर्मशास्त्रस्य ब्रजः समूह एव यस्याः सरस्वत्या मूर्धा कस्य मुदे प्रीत्यै न वृत्तः । अथच-वृत्तो वर्तुलः कस्य मुदे न । अपि तु सर्वस्यापि मुदे स्यादेवेत्यहं पश्यामि जाने । किंभूतः-श्रुतिः वेद एव मूलं तेन शालते । अथ च-कर्णयोर्मूले शोभते एवंशीलः । श्रुतिः शब्दः तस्य ग्रहणे मूलं कारणं कर्णौ ताभ्यां शालत इति वा । तथा-कण्ठस्योपरि स्थितः । अथ च-कण्ठे पाठतो न्यस्तः। धर्मशास्त्रमेव यदीयमूर्धाकारेण परिणतमिति भावः[३]

  भ्रुवौ दलाभ्यां प्रणवस्य यस्यास्तद्विन्दुना भालतमालपत्रम् ।

  तदर्धचन्द्रेण विधिर्विपञ्चीनिक्काणनाकोणधनुः प्रणिन्ये ॥ ८५ ॥

 भ्रुवाविति ॥ विधिः प्रणवस्योंकारस्य दलाभ्यां खण्डाभ्यां यस्या भुवौ प्रणिन्ये निर्ममे । तद्विन्दुना प्रणवानुस्वारेण भालतमालपत्रं ललाटतिलकम् । तदर्धचन्द्रेण यस्या विपञ्ची वीणा तस्या निक्वाणनायै वादनार्थं कोणधनुः कोणसंज्ञकं धनुः प्रणिन्ये । 'त-


  1. 'अत्रोत्प्रेक्षाश्लेषालंकारः' साहित्यविद्याधरी।
  2. 'अत्र रूपकश्लेषालंकारः' इति साहित्यविद्याधरी
  3. 'अत्र श्लेषोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी