राशेरेकाम्बुविन्दुव्ययं शोषरूपं दोषं शंसति वदति । अपितु एकस्मिञ्जलकणे व्यायते समुद्रः शुष्को जात इति न कोपि वदती[१]त्यर्थः ॥
इति स्तुवन्हुंकृतिवर्गणाभिर्गन्धर्ववर्गेण स गायतैव ।
ओकारभूम्ना पठतैव वेदान्महर्षिवृन्देन तथाऽन्वमानि ॥६५॥
इतीति ॥ इति पूर्वोक्तप्रकारेण स्तुवन् स शुक्रः गायतैव गानं कुर्वव गन्धर्वाणां वगैण समूहेन हुंकृतिवर्गणाभिहुंकारसमूहैः कृत्वा अन्वमान्यनुमतः । तथा-वेदान्पउता महर्षिवृन्देन ओंकारस्य भूम्ना वाहुल्येनान्वमानि अनुमतः । गन्धर्ववर्गण महर्षिवर्गेण चोभाभ्यामनुमतः समीचीनं वदतीति । वर्गणा राशीकरण[२]म् ॥
न्यवीविशत्तानथ राजसिंहान्सिंहासनौघेषु विदर्भराजः ।
शृङ्गेषु यत्र त्रिदशैरिवैभिरशोभि कार्तस्वरभूधरस्य ॥ ६६ ॥
न्यवीविशदिति ॥ अथ विदर्भराजः तान्राजसिंहान् सिंहासनौ्घेषु न्यवीविशन्निवेशयामास । यत्र सिंहासनेषूपविष्टैरेभी राजसिंहः कार्तस्वरभूधरस्य स्वर्णाचलस्य मेरोः शृङ्गेषूपविष्टैस्त्रिदशैर्देवैरिवाशोमि अदीपि । अत्युञ्चत्वं हेममयत्वं सिंहासनानां, देवतुल्यत्वं च तेषां सूचित[३]म् ॥
विचिन्त्य नानाभुवनागतांस्तानमर्यसंकीर्त्यचरित्रगोत्रान् ।
कथ्याः कथंकारममी सुतायामिति व्यपादि क्षितिपेन तेन ॥६७॥
विचिन्त्येति॥ तेन क्षितिपेन भीमेन इति पूर्वोक्तेन प्रकारेण व्यषादि विषण्णम् । किं कृत्वा-नानाभुवनेभ्यः स्वर्गमर्त्यपातालेभ्य आगतान् अमर्त्यैर्देवैः संकीर्त्यानि वर्णनीयानि चरित्रगोत्राणि शीलकुलानि येषां तान्विचिन्त्य विचार्य । इति किम्-अमी पूर्वोक्ता राजसिंहाः सुतायां विषये कथंकारं केन प्रकारेण कथ्या वर्णयितुं शक्या इति । एतेषां कुलशीलादि भैमी कथं ज्ञास्यतीत्य[४]र्थः ॥
श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः ।
तदाकुलोऽसौ कुलदैवतस्य स्मृतिं ततान क्षणमेकतानः ॥ ६८ ॥
श्रद्धेति ॥ अथ तदा तस्मिन्समये आकुलः सचिन्तोऽसौ भीमः कुलदैवतस्य स्वीयवंशपरम्परापूज्यस्य रथाङ्गपाणेः श्रीविष्णोः स्मृतिं क्षणं मुहूर्तमात्रम् एकतानोऽनन्यवृत्तिः सन् ततान । किंभूतस्य विष्णोः-श्रद्धालोभक्तस्य संकल्पितं वस्तु तस्य कल्पनायां सिद्धौ कल्पद्रुमस्य । सकलाभिलाषपूरककुलदैवतस्मरणं विनान्यः को वाभिलाषपूरणं करोतीति विष्णुं समारेत्यर्थः । 'एकतानोऽनन्यवृत्तिः' इंत्यमरः[५]॥