पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३२
नैषधीयचरित

  पूर्णेन्दुबिम्बाननुमासभिन्नानस्थापयत्कापि निधाय वेधाः ।

  तैरेव शिल्पी निरमादमीषां मुखानि लावण्यमयानि मन्ये॥६१॥

 पूर्णेति ॥ विधिः ब्रह्मा अनुमासभिन्नान्प्रतिमासं भिन्नान् पूर्णेन्दुबिम्बान्पूर्णचन्द्रबिम्बान्क्वापि कुत्रचित्प्रदेशे निधाय तिरोहितीकृत्यास्थापयत् । तैरेव पूर्णचन्द्रबिम्बैः कृत्वा अमीषां लावण्यमयानि मुखानि स शिल्पी ब्रह्मा निरमान्निर्ममे इत्यहं मन्ये । चन्द्रतुल्यान्येतेषां वदनानीति भावः । अन्योऽपि शिल्पी सुन्दरवस्तुनिर्माणार्थमपूर्व वस्तु कुत्रचिद्गुप्तं स्थापय[१]ति॥

  मुधार्पितं मूर्धसु रत्नमेभिर्यन्नाम तानि स्वयमेत एव ।

  खतःप्रकाशे परमात्मबोधे बोधातरं न स्फुरणार्थमर्थ्यम् ॥६२॥

 मुधेति ॥ एभिनृपैः भूर्धसु रत्न हीरकादि मुधा वृथा अर्पितं स्थापितम् । यद्यस्मात् एते एव स्वयं तानि रत्वानि नाम प्रसिद्धानि । रत्नानां शिरसि रत्नार्पणं वृथैवेत्यर्थः । अर्थान्तरन्यासमाह-स्वतःप्रकाशे स्वप्रकाशे परमात्मबोधे परमात्मज्ञाने सति स्फुरणार्थं तज्ज्ञानार्थं बोधान्तरं ज्ञानान्तरं न अर्थ्यं न याचनीयम् । स्वप्रकाशत्वात्तस्येत्यर्थः । परमात्मज्ञाने जाते ज्ञानान्तरं यथा वृथा, तथा रत्नानामुपरि रत्नान्तरारोपणमित्यर्थः । अतिसुन्दरा एत इति भावः। परमात्मबोधस्य स्वतःप्रकाशत्वं वेदान्तेभ्योऽवसेय[२]म् ॥

  प्रवेक्ष्यतः सुन्दरवृन्दमुच्चैरिदं मुदा चेदितरेतरं तत् ।

  न शक्ष्यतो लक्षयितुं विमिश्रं दस्रौ सहस्रैरपि वत्सराणाम् ॥६३॥

 प्रवेक्ष्यत इति ॥ दस्रौ अश्विनीकुमारौ मुदा उच्चैरुत्कृष्टं सहर्षमित्यर्थः । एवंभूतमिदं सुन्दरवृन्दं चेत्प्रवेक्ष्यतः प्रविष्टौ भविष्यतः तर्हि अनेन राजवृन्देन विशेषेण मिश्रं मिश्रितमितरेतरमन्योन्यं वत्सराणां सहस्त्रैरपि लक्षयितुं चिह्नितुं न शक्ष्यतः समर्थों न भविष्यतः । अयं मे भ्रातेति परस्परं ज्ञातुमसमर्थौ भविष्यतः। सर्वेषां दस्रतुल्यत्वादिति भावः[३]

  स्थितैरियद्भिर्युवभिर्विदग्धैर्दग्धेऽपि कामे जगतः क्षतिः का।

  एकाम्बुबिन्दुव्ययमम्बुराशेः पूर्णस्य कः शंसति शोषदोषम् ॥६४॥

 स्थितैरिति ॥ विदग्धैश्चतुरैर्दाहरहितैर्वा इयद्भिर्बहुसंख्याकैः स्थितैः विद्यमानैरेतैर्युवभिस्तरुणैः हेतुभिः हरेण एकस्मिन्कामे दग्धेऽपि जगतः का क्षतिः का हानिः। कामसदृशानामेतेषां बहूनां स्थितत्वात् । एतदेवार्थान्तरन्यासेन समर्थयते-कः पूर्णस्याम्बु-


  1. 'अत्रानुप्रासोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  2. अत्रातिशयोक्त्यर्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।