पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३०
नैषधीयचरिते

एकेनेति ॥ द्वादश आत्मानो देहा यस्य द्वादशदेहः सूर्य एकेनात्मना वपुषाद्रीं मेरुं पर्यक्षिपत्प्रदक्षिणीचकार । परेणात्मना देहेन मुरारेः चक्षुः दक्षिणनेत्रमभवत् । शेषैस्तुदशभिर्दैहैः कृत्वा लोकैः पूर्णा दशापि दिश आलोकत । 'विधातृमित्रार्यमणो वरुणेन्द्रभगांशवः । पूषा विवस्वान्पर्जन्यस्त्वष्टा विष्णुर्दिनेश्वराः ॥ इति[१]

 प्रदक्षिणं दैवतहर्म्यमद्रिं सदैव कुर्वन्नपि शर्वरीशः ।
 द्रष्टा महेन्द्रानुजदृष्टिमूर्त्या न प्राप तद्दर्शनविघ्नतापम् ॥ ५३ ॥

 प्रदक्षिणमिति ॥ सदैव दैवतानां हर्म्यं वसतिं स्थानं अद्रिं मेरुं प्रदक्षिणं कुर्वन्नपि शर्वशिश्चन्द्रो महेन्द्रानुजस्य मुरारेर्दृष्टिमूर्त्या वामनयनरूपेण द्रष्टा सन् तस्य स्वयंवरस्य दर्शने यो विघ्नस्तेन तापं दुःखं न प्राप [२]

 आलोकमाना वरलोकलक्ष्मीं तात्कालिकीमप्सरसो रसोत्काः।
 जनाम्बुधौ यत्र निजाननानि वितेनुरम्भोरुहकाननानि ॥ ५४॥

 आलोकेति ॥ रसोत्का दर्शनरसोत्कण्ठिताः तात्कालिकीं स्वयंवरसमयजातां वरलो- कलक्ष्मी राजसङ्घशोभामालोकमाना विलोकयन्त्योऽप्सरसः तत्र जनाम्बुधौ निजाननान्यम्भोरुहकाननानि कमलवनानि चक्रुः । अप्सरसोऽपि तं समाजं सादरं पश्यन्ति स्मेति भावः । जलाशयेऽपि कमलानि भवन्ति[३]

 न यक्षलक्षैः किमलक्षि नो वा सिद्धैः किमध्यासि सभाप्तशोभा।
 सा किंनरैः किं न रसादसेवि नादर्शि हर्षेण महर्षिभिर्वा ॥५५॥

 नेति ॥ आप्तशोभातिसुन्दरा सा सभा यक्षलक्षैः रसात् प्रीत्या किं न अलक्षि दृष्टा। तथा-सिद्धैः वा रसात्किं नोऽध्यासि । तथा-किंनरैः रसात् न असेवि । तथा-म- हर्षिभिः वा हर्षेण न अदर्शि । 'रसादिति सिद्धे 'हर्षेणेति पदमनुप्रासार्थम्[४]

 वाल्मीकिरश्लाघत तामनेकशाखत्रयीभूरुहराजिभाजा।
 क्लेशं विना कण्ठपथेन यस्य दैवी दिवः प्राग्भुवमागमद्वाक् ॥५६॥

 वाल्मीकिरिति ॥ स वाल्मीकिर्ऋषिः तां सभामश्लाघतास्तौत् । स कः-दैवी वाक् पद्यमयी यस्य वाल्मीकेः कण्ठपथेन क्लेशं विना दिवः सकाशात् प्राक् 'मानिषाद-' इत्यादिरूपेण भुवमगमदागता । प्रथमं भूमौ यः संस्कृतप्रवर्तकः। किंभूतेन कण्ठपथेन-अनेकाः शाखा आश्वलायनादयो यस्याः सा वेदत्रयी तल्लक्षणा भूरुहास्तेषां राजिः पङ्क्तिस्तां भजते एवंभूतेन । सशाखवेदत्रयीपाठकेनेत्यर्थः । अन्येनापि बहुस्कन्धवृक्षयुक्तेन मार्गेण दूरदेशादप्यनायासेन गम्यते[५]


  1. 'अत्र छेकानुप्रासो यथासंख्यमलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र हेत्वलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी
  4. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी
  5. 'अत्र रूपकश्लेषालंकारः' इति साहित्यविद्याधरी