पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२८
नैषधीयचरिते

 तर्हि के यूयमित्या

 तेभ्यः परान्नः परिकल्पयस्व श्रिया विदूरीकृतकामदेवान ।
 अस्मिन्समाजे बहुषु भ्रमन्तीभैमी किलास्मासु घटिष्यतेऽसौ॥४६॥

 तेभ्य इति ॥ त्वं श्रिया शोभया विदूरीकृतो जितः कामदेवो यैस्तान्नोऽस्मान्परिकल्पयस्व जानीहि । स्वशोभया वा। अत्रागमने कारणमाहुः-अस्मिन्समाजे बहुषु राजसु विषये भ्रमन्ती असौ भैमी किल संभावनायां (अस्मासु) घटिष्यते संयोगं यास्यति। अथच-सदृशेषु पञ्चसु भ्रमन्ती मुह्यन्ती । भैमी अस्मासु मध्ये कस्मिंश्चिद्घटिष्यते संयोगं यास्यतीति दुराशयास्माभिरागतमिति भावः । किल हेतौ वा[१]

 असाम यन्नाम तवेह रूपं स्वेनाधिगत्य श्रितमुग्धभावाः ।
 तन्नो धिगाशापतितान्नरेन्द्र धिक्चेदमस्मद्विबुधत्वमस्तु ॥४७॥

 असामेति । नामेति संभावनायाम् । हे नरेन्द्र, साक्षात्स्वेन आत्मनैव तव रूपं सौ- न्दर्यमधिगत्य ज्ञात्वा दृष्ट्वा वा भैमीप्राप्तिदुराशावशाच्छ्रितमुग्धभावा अङ्गीकृतमौर्ख्याः सन्तो यद्यस्मादिह सभायामसाम तिष्ठाम । अथ च स्वेनात्मशरीरेण कृत्वा तव रूपं स्वरूपमधिगत्य प्राप्य त्वदाकारं स्वशरीरं धृत्वा श्रितमुग्धभावा अङ्गीकृतसौन्दर्याः त्वदाकारधारणादेव श्रितसौन्दर्याः सन्तो यस्मादसाम तिष्ठामहै । तत्तस्मात् आशया भैमीप्राप्तिदुराशया आपतितान्नः अस्मान्धिक् । निन्द्या वयमित्यर्थः । अथवा-अस्माकमाशापतितां दिक्पतित्वं धिक् निन्द्यम् । अस्माकमाशामात्रेण पतितां भैमीपतित्वं धिगिति वा । तथा-अस्मद्विबुधत्वमस्माकं पण्डितत्वम् । अथ च-देवत्वं धिगस्तु । अथ च स्वे आत्मनि स्वीयरूपे पूर्वं तव रूपं नाधिगत्य न प्राप्य किमिदानीं कर्तव्यमिति प्राप्तमौर्ख्या भ्रान्तचित्ताः सन्तो मत्सरेण इह स्वयंवरे नल एवैको वरणयोग्य इति प्रसिद्धं तव नाम संज्ञां ख्यातिं वा वयमसाम नाशितवन्तः। स्वरूपधारणाच्चतुर्णामस्माकमपि नलत्वादित्यर्थः । तस्मान्नलभ्रान्त्याप्यस्मान्वरिष्यतीत्याशया आपतितानागतानस्मान्धिक् । अस्माकं ज्ञातृत्वं देवत्वं वा धिगस्तु । अनिश्चितव्यापारकरणादित्यर्थः । अथ च स्वानां ज्ञातीनां मध्ये इन श्रेष्ठ।यद्वा-धनानां स्वामिन्नरेन्द्र । असाम 'अस गतिदीप्त्यादानेषु' 'अस भुवि' इत्यस्य लोडुत्तमबहुवचनम् । पक्षे 'षोऽन्तकर्मणि' लुङि[२]

 सा वागवाज्ञायितमां नलेन तेषामनाशङ्कितवाक्छलेन ।
 स्त्रीरत्नलाभोचितयत्नमग्नमेनं हि न स्म प्रतिभाति किंचित॥४८॥

 सेति ॥ अनाशङ्कितमननुसंहितं देवानां वाक्छलं येन तेन नलेन सा पूर्वोक्ता तेषां देवानां वाक् अवाज्ञायितमामतिशयेनावगणिता । कथं नाज्ञायीत्यत आह-स्त्रीरत्नं भैमी तस्या लाभ उचितो यत्न उपायः तत्र मग्नं तत्परमेनं नलं प्रति लक्षीकृत्य हि यस्मान्न किंचित्प्रतिभाति स स्फुरति स्म । भैमीप्राप्त्युपायपरत्वात्तैः कथितमपि देवत्वं न ज्ञातमिति भावः[३]


  1. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र श्लेषालंकारः' इति साहित्यविद्याधरी
  3. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी