पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२७
दशमः सर्गः।

 गुणेन केनापि जनेऽनवद्ये दोषान्तरोक्तिः खलु तत्खलत्वम् ।
 रूपेण तत्संसददूषितस्य सुरैर्नरत्वं यददूषि तस्य ॥ ४३ ॥

 गुणेनेति ॥ रूपेण सौन्दर्येण कृत्वा तस्यां संसदि तया संसदा सभया वा अदूषित- स्यानिन्दितस्यातिसुन्दरस्य तस्य नलस्य सुरैः सुन्दरोपि मनुष्योऽयं नतु देव इति नरत्वं यददूषि निन्दितम् । तत् खलत्वं खलु । तत्तैर्दौर्जन्यमेव कृतमित्यर्थः । खलत्वस्वरूपमेवाह-केनापि लोकोत्तरेण गुणेन सौन्दर्यसुशीलत्वादिना कृत्वा अनवद्ये पूज्ये पुंसि दोषान्तरत्वोक्तिः दोषान्तरारोपणम् । यद्वा-सुरैस्तत्संसददूषितस्य तस्य नरत्वं रलयोरभेदात् नलस्य रूपेण स्वरूपेण नलत्वमदूपि तत्खलत्वम् । तेषां देवानां दौर्जन्यं खल्विति योजना । तत्खलत्वमेकं पदम् । अतिसुन्दरं तं दृष्ट्वा देवा अपि सेर्प्या जाता इति भावः[१]

 [२]लानसत्यानवदत्स सत्यः कृतोपवेशान्सविधे सुवेषान् ।
 नोभा[३]विलाभूः किमु दर्पकश्च भवन्ति नासत्ययुतौ भवन्तः ॥४४॥

 नलानिति ॥ स सत्यो नलः सविधे समीपे कृतोपवेशान्कृतस्थितीन्सुवेषाञशोभना- कारान् असत्यान्नलानिन्द्रादीनित्यवदत् । इति किम्-भवन्तश्चत्वार एते न भवन्ति किमु । एते के-इलाभूः पुरूरवाः, दर्पकः कामश्च उभौ किमु । किंभूतावुभौ-नासत्ययुतौ आश्विनेयसहितौ । पुरूरवाः कामः अश्विनी-कुमारौ च यूयमिति नलप्रश्नः । यथा नलं दृष्ट्वाऽन्येषां विस्मयः तथा नलस्यापि मिथ्यानलदर्शनेन विस्मयो जात इत्यर्थः[४]

 [५]मी तमीहग्जगुरत्र मध्ये कस्यापि नोत्पत्तिरभूदिलायाम् ।
 अदर्पकाः सः सविधे स्थितास्ते नासत्यतां नात्र विभर्ति कश्चित ॥४५॥

 अमी इति ॥ अमी मिथ्यानलाः तं सत्यं नलमीदृगेतादृशं जगुः आहुः स्म वदन्ति स्म । यद्यस्मादत्रास्मासु मध्ये इलायां पृथिव्याम् । अथ च-इलायां पुरूरवसो मातरि कस्याप्युत्पत्तिः नाभूत् । तथा-ते तव सविधे समीपे स्थिता वयमदर्पकाः दर्पकात्कामात् अन्ये । अथ च-अतिरमणीयत्वत्कान्तिदर्शनाद्दर्पो गर्वः तद्रहिताः तिष्ठामः । तथा-अत्रास्मासु मध्ये कश्चित् नासत्यतामाश्विनेयत्वम् । अथ च सत्यत्वम् । न विभर्ति । अथवा-अस्मासु कश्चित् ना नरः सत्यतां न बिभर्ति वयं त्वद्रपधारणादसत्या एवेति छलेन पूर्वोक्तं नलप्रश्नमुत्तरयन्ति स्मेत्यर्थः । नात्र पुरूरवाः, कामः, दस्रौ वास्मासु सन्तीति । 'नासत्य' इति 'नभ्राण-' इति प्रकृत्या [६]


  1. 'अत्रार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी
  2. 'मिथ्यानलांस्तथ्यनलो द्विपार्श्वीकृतोफ्वे-
    शानवदत्सुवेषान्' इति पाठः सुखावबोधालिखितः । 'नलानसत्यानवदद्विपार्श्वीकृतोपवेशान्' इति पाठः
    साहित्यविद्याधरीसंमतः ।
  3. 'उभौ किमैलश्च न दर्पकश्च' इति सुखावबोधासाहित्यविद्याधरीसंमतः पाठः ।
  4. 'अत्रार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी
  5. 'अमी तमाहुः स्म यदत्र मध्ये' इति जीवातुसंमतः पाठः ।
  6. 'अत्र वक्रोक्त्यलंकारः' इति साहित्यविद्याधरी