पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
नैषधीयचरिते

न्योन्यभाषानवबोधात्परस्परभाषाबोधाभावात् या भीतिस्तस्या हेतोः संस्कृतिमाभिः प्रकृतिप्रत्ययनिर्वचनरूपेण संस्कारेण निर्वृताभिः सर्वसाधारणीभिर्वाग्भिः कृत्वा व्यवहारवत्सु परस्परं व्यवहारं कुर्वत्सु । परस्परं (देश) भाषानवबोधभयात्संस्कृतमेव वदन्ति । संस्कृतस्य देवमनुष्यसाधारणत्वात् एते देवाः, एते मनुष्या इति तत्रत्यैर्न ज्ञाता इति भावः । संस्कृत्रिमाभिः 'संपर्युपेभ्यः-' इति सुट् । गुणाधानस्य भूषणशब्दार्थत्वमत्र । स्वर्गे भवाः सौवर्गाः भवार्थे 'तत्र भवः' इत्यण् । 'द्वारादीनां च' इत्यैजागमो वृद्धिनिषेधश्च । 'स्वर्गीय-' इति पाठे भवार्थे वा नामधेयस्य वृद्धसंज्ञा' इति वृद्धसंज्ञत्वात् 'वृद्धाच्छः'[१]

ते तत्र भैम्याश्चरितानि चित्रे चित्राणि पौरैः पुरि लेखितानि ।
निरीक्ष्य निन्युर्दिवसं निशां च तत्स्वप्नसंभोगकलाविलासैः ॥ ३५ ॥

 त इति ॥ ते देवा राजानश्च तत्र पुरि तस्यां पुर्यां पौरैलॊकैर्लिपिकरैः कृत्वा चित्रे लेखितानि चित्राणि नानाविधान्याश्चर्यरूपाणि वा भैम्याश्चरितानि निरीक्ष्य दिवसं निन्युः। तस्या भैम्याः स्वप्ने यः संभोगो रतं तत्संबन्धिभिः कलाविलासैश्चुम्बनादिकलाकौशलैश्च निशां निन्युरतिवाहयांबभूवुः । स तैरहोरात्रः कथंचिदतिक्रान्त इति भावः । अस्वप्नानामपि देवानां कामभ्रान्तिरेव स्वप्नस्थाने द्रष्टव्या[२]

सा विभ्रमं स्वागतापि तस्यां निशि स्वलाभस्य ददे यदेभ्यः ।
तदर्थिनां भूमिभुजां वदान्या सती सती पूरयति स्म कामम ३६

 सेति ॥ तस्यां निशि स्वयंवरात्पूर्वदिनरात्रौ स्वप्नगता स्वप्नदृष्टापि सा सती साध्वी भैमी एभ्यो देवेभ्यो राजभ्यश्च स्वलाभस्य स्वप्राप्तेर्विभ्रमं विलासम् । अथ च विशिष्टं भ्रमं भ्रान्तिम् । यत् ददे दत्तवती । तत् स्वयमेवार्थिनामर्थयमानानां भूमिभुजां देवानां राज्ञां च वदान्या दानशूरा सती कामं मदनमभिलाषं च पूरयति स्म । स्वलाभविभ्रमदानमेव कामपूरणमित्यर्थः । 'यत् यस्मात् , तत् तस्मात्' इति केचित् । पतिव्रतायाः सर्वकामपूरकत्वं विरुद्धम् । भ्रान्तिदृष्टाया अलीकत्वात्सर्वकामपूरणेऽपि दोषाभावात्परिहारः[३]

वैदर्भदूतानुनयोपहूतैः शृङ्गारभङ्गीरनुभावयद्भिः।
स्वयंवरस्थानजनाश्रयस्तैर्दिने परत्रालमकारि वीरैः ॥ ३७ ॥

 वैदर्भेति ॥ तैर्वीरैः शूरै राजपुत्रैः परत्र परस्मिन्दिने स्वयंवरस्य स्थानं देशस्तस्य जनाश्रयो मण्डपः अलमकारि अलंकृतः । सपि वीरास्तत्रागता इति भावः । किंभूतैः-वै-दर्भस्य भीमस्य दूतैः कर्तृभिरनुनयेन विनयेन कृत्वोपहूतैराकारितैः । तथा-शृङ्गारभङ्गीः शृङ्गारप्रकारविशेषाननुभावयद्भिः प्रकाशयद्भिः । 'शृङ्गीष्वनुभावविद्भिः'


  1. 'अत्रातिशयोक्तिरलंकारः हेतुश्च' इति साहित्यविद्याधरी ।
  2. 'अत्र छेकानुप्रासातिशयोक्त्यलंकारः इति साहित्यविद्याधरी ।
  3. 'अत्र विरोधाभासोलंकारः । छेकानुप्रासोऽपि' इति साहित्यविद्याधरी ।