पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२३
दशमः सगः।

 पुर इति ॥ तत्र पुरे पथि राजमार्गसमीपे द्वारगृहाणि मुख्यपुरोभागे रचितानि द्वाराणि राजमार्गमुभयतोगृहाणि यद्वा पन्थानो राजमार्गा द्वाराणि गृहाणि च यद्वा-प-थिषु द्वाराणि येषां तानि गृहाण्युत्सववाञ्छया विवाहोत्सवाभिलाषेण लेख्यादिना कृत्वा लोकेन चित्रीकृतान्येवाश्चर्यरूपाणि कृतान्येव । तत्राश्चर्यं न किंतु-तेषां मही-भृतामाभरणप्रभाभिस्तत्रत्यं नमोऽप्याकाशमपि किर्मीरं नानावर्णमकारि कृतम् । गृहादीनि चित्रीकृतानीति किं वाच्यमि[१]त्यर्थः॥

विलासर्वदग्ध्यविभूषणश्रीस्तेषां यथासीत्परिचारकेऽपि ।
अज्ञासिषुः स्त्रीशिशुवालिशास्तं यथागतं नायकमेव कंचित् ॥ ३२ ॥

 विलासेति ॥ विलासः कटाक्षविक्षेपादिशृङ्गारचेष्टा, तथा-वैदग्ध्यं वक्रोक्त्यादिभाषणे चातुर्यम् , विभूषणं सुवर्णाद्यलंकारः, एतज्जनिता श्रीस्तेषां राज्ञां परिचारके सेवकेऽपि तथासीत्, यथा येन प्रकारेण स्त्रीशिशुबालिशास्तं परिचारकमपि कंचिदागतं नायकमेव मुख्यं राजानमेवाशासिषुर्वुध्यन्ते स्म । सेवकस्य विलासादिशोभां दृष्ट्वा अयं राजविशेष एवेति सेवके ख्यादीनां भ्रान्तिरभूदिति भावः । 'शिशावज्ञे च वालिशः' [२]इत्यमरः॥

न खेदिनश्चामरमारुतैर्न निमेषनेत्राः प्रतिवस्तुचित्रैः।
म्लानस्त्रजो नातपवारणेन देवा नृदेवा बिभिदुर्न तत्र ॥ ३३ ॥

 नेति ॥ तत्र राजसमाजे देवाः नृदेवा राजानो न विभिदुः भेदं न प्रापुः । कथम्-स्व-भावत एव न स्वेदिनश्चलच्चामरमारुतैरुपलक्षिताः । तथा-स्वभावतो न निमेषनेत्राः । निर्निमेषा इत्यर्थः । प्रतिवस्तुचित्रैः वस्तुनि वस्तुन्याश्चर्यैरुपलक्षिताः । तथा-न म्लानस्त्रजः, आतपवारणेन छत्रेण उपलक्षिताः एवंभूता इन्द्रादयः । राजानश्च-[३]चलचाम-रोघैः कृत्वा अस्वेदगात्राः प्रतिवस्तुचित्रैरनिमीलनेत्राः, विधृतातपत्रैरम्लानमालाः। सर्वथा राजानो देवतुल्या बभूवुरिति भावः । 'अस्वेदगात्रा (श्चलचामरोधैः) 'अमीलनेत्राः (प्रतिवस्तुचित्रैः) 'अम्लानमालाः (विधृतातपत्रैः)' इत्यपि पाठः । 'भिदां न भेजुः' इति च पाठः[४]

अन्योन्यभाषानवबोधभीतेः संस्कृत्रिमाभिर्व्यवहारवत्सु ।
दिग्भ्यः समेतेषु नृपेषु तेषु सौवर्गवर्गो न जनैरचिन्हि ॥ ३४ ॥

 अन्योन्येति ॥ जनैः कुण्डिनस्थैर्लोकैः दिग्भ्यः समेतेषु समागतेषु नरेषु राजसु मध्ये सौवर्गवर्गः देवसमूहो नाचिह्नि नातर्कि । देवत्वेन न ज्ञात इत्यर्थः । किंभूतेषु नरेषु-अ-


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी ।
  2. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी ।
  3. 'पाठद्वयस्यापि प्रामाणिकत्वध्वननाय देवपक्षेऽन्यथामूलं व्याख्याय राजपक्षे मूलपाठान्तरेण व्याख्यातम् ।
  4. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अत्रास्वेदगात्रादिपदार्थानां विशेघणगत्या देवाभेदहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः' इति जीवातुः ।