पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१९
दशमः सर्गः।

 नलेति ॥ सा महेन्द्रादिचतुष्टयी काचिदनिर्वचनीयालीकरूपा मिथ्यास्वरूपा चतुर्नल्यभूत् । किंभूता-दूतीमुखात्स्वस्मिन्विरागमाकर्ण्यापि इति शेषिताशावशिष्टाशा । इति किम्-भैमी नलभ्रमेणाप्यस्मान्कदाचिद्भजेतेति संभावनयेत्यर्थः । नलानुरक्ता भैमी नलभान्त्याऽस्मानपि वृणुयादिति मिथ्याचतुर्नलीरूपा भूत्वा चत्वारोऽपीन्द्रायस्तत्रागता इति [१]भावः॥

  [२]प्रयस्यतां तद्भवितुं सुराणां दृष्टेन पृष्टेन परस्परेण ।

  [३] नैवानुमेने नलसाम्यसिद्धिः स्वाभाविकात्कृत्रिममन्यदेव ॥ १९ ॥

 प्रयस्यतामिति ॥ न सः असः स भवितुं तद्भवितुं नलीभवितुं प्रयस्यतां प्रयत्नं कुर्वतां सुराणां मध्ये अयं नलतुल्यो जातो न वा इति दृष्टेनावलोकितेन । तथा अहं नलतुल्यो जातो न वा, इति कथय इति पृष्टेन परस्परेणान्योन्येन नलसाम्यसिद्धिः परस्परन- लतुल्यत्वसिद्धिः नैवानुमेने नानुमता। त्वं नलसदृशो नाभूः, त्वमपि नलसदृशो नाभूरिति परस्परमूचुरित्यर्थः । यतः -स्वाभाविकात्सहजात् कृत्रिममन्यदेव । सहजस्य कृत्रिमस्य च महदन्तरं यस्मात् , तस्मात्ते नलसदृशा न जाता इति भावः । सुराणां नलसाम्यसिद्धिरिति वाऽन्वयः । 'तद्द्वैतसिद्धिर्न बतानुमेने' इति पाठे-द्वितैव द्वैतम्, प्रज्ञादित्वात्स्वार्थेऽण् । तस्य नलस्य द्वैतं तद्द्वैतं तस्य सिद्धिर्लाभो नानुमेने । बत [४] खेदे ॥

  पूर्णेन्दुमास्यं विदधुः पुनस्ते पुनर्मुखीचक्रुरनिद्रमब्जम् ।

  स्ववक्त्रमादर्शतलेऽथ दर्शं दर्शं बभञ्जुर्न तथातिमञ्जु ॥ २० ॥

 पूर्णेन्दुमिति ॥ ते देवाः पूर्णेन्दु पूर्णिमाचन्द्र पुनः पुनः आस्यं मुखं विदधुः चक्रुः । तथा अनिद्रं विकसितमजब्जं पुनः पुनः मुखीचक्रुः । पूर्वं पूर्णं चन्द्रं मुखीचक्रुः । तमयोग्यमिति ज्ञात्वा पश्चाद्विकसितं कमलम् , तदप्ययोग्यं ज्ञात्वा पुनरपि चन्द्रम् , तदनन्तरं पुनरपि कमलं मुखीचक्रुरिति पुनःशब्दयोरर्थः। अथ एवं कृतेऽपि आदर्शतले दर्पणमण्डले स्ववक्त्रं दर्शं दर्शमादरात्परीक्षकदृष्ट्या दृष्ट्वा बभञ्जुः भग्नीचक्रुः । यतः तथा नलमुखवदतिमञ्जु अतिसुन्दरं नाभूत् । पूर्णचन्द्रविकसितकमलाभ्यामपि नलमुखमतिसुन्दरमिति भावः । दर्शं दर्शम्, 'आभीक्ष्ण्ये णमुल्च' इति णमुल्, ('नित्यवीप्सयोः' इति) द्वित्वं च[५]

  तेषां तदा लब्धुमनीश्वराणां श्रियं निजास्येन नलाननस्य ।

  नालं तरीतुं पुनरुक्तिदोषं बर्हिर्मुखानामनलाननत्वम् ॥

 तेषामिति ॥ तदा नलरूपनिर्माणावसरे निजास्येन नलाननस्य नरेषु ननशोभां लब्धुमनीश्वराणामसमर्थानां तेषां बर्हिर्मुखानां देवानामान्न्त्वं किमग्निमुखत्वं कर्तुं


  1. 'अत्रानुप्रासालंकारः' इति साहित्यविद्याधरी
  2. ‘प्रपश्यताम्' इति साहित्यविद्याधरी
  3. 'तद्द्वैतसिद्धिर्न बतानुमेने' इति जीवातुः
  4. अत्रार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी
  5. 'अत्र भावातिशयोक्तिरलंकारः' इति साहिलविद्याधरी । 'अत्र विशेषोक्तिरलंकारः' इति जीवातुः