पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
नैषधीयचरित

विवाहं कस्मात्सहते स्म । अपि तु न सहते स्म । विदर्भान् अव्रजन्त्या तया पार्वत्या ईशानयानाय हरगमनाय तेन कारणेनान्तरायो विघ्नो विदधे कृतः। शरीरार्धत्वात्पार्वत्याः कथं स गच्छतु । 'पुंस्यर्धोsर्ध समेंऽशके' १इत्यम[१]रः॥

  स्वयंवरं भीमनरेन्द्रजाया दिशः पतिर्न प्रविवेश शेषः ।

  प्रयातु भारं स निवेश्य कस्मिन्नहिर्महीगौरवसासहिर्यः ॥१५॥

 स्वयंवरमिति ॥ अधरदिशः पतिः शेषः भीमनरेन्द्रजायाः स्वयंवरं न प्रविवेश। कुतः-स शेषः कस्मिन्स्वसदृशे पृथ्वीभारं निवेश्य प्रयातु । योऽहिः सो महीगौरवं भृशं सहत इति महीगौरवसासहिः । सासहिवावदिचाचलिपापतिप्रभृतय इकारान्तासाहित्यविद्याधरीस/म्मत: निपातिताः॥

  [२]यौ विमृश्योर्ध्वदिशः पतिर्न स्वयंवरं वीक्षितधर्मशास्त्रः।

  व्यलोकि लोके श्रुतिषु स्मृतौ वा समं विवाहः क पितामहेन॥ १६॥

 ययाविति ॥ वीक्षितं पर्यालोचितं धर्मशास्त्रं येनैवंविध ऊर्ध्व दिशः पतिर्ब्रह्मा विमृश्य धर्मतत्त्वं विचार्य स्वयंवरं न ययौ । विचारमेवाह-पितामहेन, अथ च पितृपित्रा समं विवाहः क लोके श्रुतिषु स्मृतौ वा व्यलोकि । लोकस्मृतिश्रुतिविरुद्ध इत्यर्थः । 'असमानार्षगोत्रजाम्' इति स्मृतिनिषेधात्पितृपित्रा सह विवाहस्याननुशातत्वात्पितामहेन तत्र न गतमिति भावः । मन्वादिद्वारा स्वयमेव धर्मशास्त्रं प्रणीय कथमेवं कुर्यादिति [३]भावः॥

  भै[४]मीनिरस्तं४ स्वमवेत्य दूतीमुखात्किलेन्द्रप्रमुखा दिगीशाः।

  स्यदे मुखेन्दौ च वितत्य मान्द्यं चित्तस्य ते राजसमाजमीयुः ॥ १७ ॥

 भैमीति ॥ ते इन्द्रप्रमुखा दिगीशा इन्द्रादयो दिक्पालाः दूतीमुखात्स्वमात्मानं भैम्या निरस्तं निराकृतं किल निश्चयेनावेत्य ज्ञात्वा स्यदे गमने किमर्थमस्माभिस्तत्र गन्तव्यमित्युत्साहभङ्गान्मुखेन्दौ च चित्तस्य मान्धमालस्यं वितत्य विस्तीर्य राजसमाजमीयुर्जग्मुः । 'चिरस्य' इति पाठे शनैः शनैः । स्यदे मान्द्यं शनैस्त्वम्, मुखेन्दौ मान्द्यं मलिनता । एतन्मान्द्यंद्वयेन चित्तस्यापि मान्द्यं प्रकाशितमिति भावः । 'स्यदो जवे' इति [५]’ साधुः॥१५॥

  नलभ्रमेणापि भजेत भैमी कदाचिदस्मानिति शेषिताशा ।

  अभून्महेन्द्रादिचतुष्टयी सा चतुर्नली काचिदलीकरूपा ॥ १४ ॥


  1. 'अत्रोत्प्रेक्षा हेत्वनुप्रासालंकाराः' इति साहित्यविद्याधरी
  2. ’स्वयं विमृश्यैव स धर्मशास्त्रं स्वंयवरं प्रास्यित न स्वयंभूः । व्यलोकि लोके मुनिभिः स्नूतो वा’ इति पाठ्ः सुखावबोधासाहित्यविघधरिसँमत
  3. ’'अत्र हेतुश्लेषालंकारः' इति साहित्यविद्याधरी । सामान्येन विशेषसमर्थनरूपोर्थान्तरन्यासः' इति जीवातुः
  4. ’ श्रुत्वा निजं भीमजया निराशं दूतीमुखादिन्द्रमुखाः' इति पाठः सुखावबोधासाहित्यविद्याधरीसंमतः ।
  5. ’ 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी