पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
नैषधीयचरिते

 रथैरिति ॥ अथ कुमाराः प्रादुर्भूततरुणिमानो राजानो रथैः कृत्वा प्रारब्धवरं स्वयंवरमायुराजग्मुः । किंभूताः-(पूर्वमाकारिताः) कुलजाः कुलीनाः शस्त्रेषु धनुरादिषु, शास्त्रेषु वेदादिशास्त्रेषु च दृष्टपाराः प्राप्तपर्यन्ताः समन्त्रकशस्त्रप्रयोगोपसंहारविदो वेदादिशास्त्रविदश्च । तथा शंबरवैरी कामस्तस्य कायव्यूहः शंबरजयार्थं मायया गृहीतो यः शरीरसङ्घः तद्वच्छ्रीः शोभा येषाम् । कामशरीरसङ्घा एव ते युवान इत्यर्थः । तथा - श्रिया लक्ष्म्या कृत्वा जितो यक्षराट् कुबेरो यैस्ते। कुबेरादप्यधिकसंपद इति यावत् । स्वयंवरस्थानं कुण्डिनं प्राप्ता इत्यर्थः । अन्यवाहनसद्भावेऽपि संपदाधिक्यसूचनार्थं महारथत्वादिप्रशंसासूचनार्थं च रथपदम् । एतैर्विशेषणैर्वरोचिता गुणाः कथिताः। यदुक्तम्-'कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः॥' प्रथमतःशस्त्रग्रहणं क्षत्रियाणां शास्त्रापेक्षयाऽभ्यर्हिततरत्वसूचनार्थम् । आयुः, आङ्पूर्वस्य [१] यातेर्लङि॥

  नाभूदभूमिः स्मरसायकानां नासीदगन्ता कुलजः कुमारः।

  नास्थादपन्था धरणेः कणोऽपि व्रजेषु राज्ञां युगपद्रजत्सु ॥ २॥

 नाभूदिति ॥ कुलजः कुलीनः कोपि कुमारः स्मरसायकानामभूमिरगोचरो नाभूत् । किंतु स्वयंवरश्रवणेन कामबाणपीडित एवाभूत् । तथा-अगन्ता नासीत् । सर्वोऽपि स्वयंवरे गत एवेत्यर्थः । राज्ञां व्रजेषु युगपद्रजत्सु सत्सु धरणेः पृथिव्याः कणोप्यणुरूपोपि देशः अपन्थाः नास्थान्न स्थितः किंतु बहुमार्गोऽभूदित्यर्थः । अस्थादिति 'गातिस्था-' इति सिचो [२] लुक् ॥

  योग्यैर्व्रजद्भिर्नृपजां वरीतुं वीरैरनर्है: प्रसभेन हर्तुम् ।

  द्रष्टुं परैस्तान्परिकर्तुमन्यैः स्वमात्रशेषाः ककुभो बभूवुः ॥ ३ ॥

योग्यैरिति ॥ कुलादिना योग्यैर्नृपजां भैमी वरीतुं व्रजद्भिर्नृपैः, तथा-अनहैं: कुलादिना अयोग्यैः प्रसभेन हठेन हर्तुं व्रजद्भिः वीरैः शूरैः, तथा-स्वयंवरकौतुकं द्रष्टुं व्रजद्भिः परैरुदासीनैः, तथा - तान्सर्वानपि परिकर्तुं सेवितुं ब्रजद्भिरन्यैः वेतनग्राहिभिः दासीभूतैर्जनैः कृत्वा ककुभो दिशः स्वमात्रशेषाः स्वमात्रावशिष्टाः बभूवुः। सर्वेऽपि जनाः स्वयंवरे गता इति भावः । 'अनुरोद्भुम्' इति पाठे स [३] एवार्थः ॥

 पूर्वोक्तमेवार्थमाह-

  लोकरशेषैरवनिश्रियं तामुद्दिश्य दिश्यैर्विहिते प्रयाणे

  स्ववर्तितत्तज्जनयन्त्रणार्तिविश्रान्तिमायुः ककुभां विभागाः ॥ ४॥

 लोकैरिति ॥ अशेषैः सकलै: दिश्यैदिग्भवैर्लोकैरवनेः पृथिव्याः श्रियं लक्ष्मी तां भै-


  1. 'अत्रानुप्रासपरिकरोपमातिशयालंकारसंकरः इन्द्रवज्रोपेन्द्रवज्रालक्षणस्य मिश्रितत्वादुपजातिवृत्तम्' इति साहित्यविद्याधरी ।
  2. 'अत्र ककुभां स्वमात्रशेषत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिभेदः' इति जीवातुः।
  3. 'अत्र दीपकातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी