पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
दशमः सर्गः।


तदखिलमिह भूतं भूतगत्या जगन्याः
 पतिरभिलपति स्म स्वात्मदूतत्वतत्त्वम् ।
त्रिभुवनजनयावहृत्तवृत्तान्तसाक्षा-
 स्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् ॥ १५९ ॥

 तदखिलमिति ॥ जगत्याः पतिः नल इह भैमीविषये (सं)भूतं जातमखिलं तत्स्वान्मदूतत्वतत्त्वं स्वीयं दूत्यं तस्य तत्त्वं याथार्थ्यं भूतस्य परमार्थस्वरूपभूतस्य वृत्तस्य गत्या प्रकारेण प्रथमं मया निष्कपदं दूत्यं कृतम् , अनन्तरमुन्मदिष्णुना मयात्मप्रकाशनं कृतमित्यादिस्वरूपेण भूतस्य सत्यस्य प्रकारेण वा इन्द्रादिषु द्राक् शीघ्रं निरस्तानन्दमकृतकार्यत्वाल्लज्जावशाच्च त्यक्तहर्षं यथा तथाभिलपति स्म कथयति स्म । यथावृत्तमेवाकथयदित्यर्थः । किंभूतेश्चिन्द्रादिषु-त्रिभुवने जनानां यावान्वृत्तो निष्पन्नो वृत्तान्तः समाचारः तस्य साक्षात्कृतौ प्रत्यक्षीकरणे कृतिषु कुशलेषु । त्रिभुवन-इत्यादिना निष्क- पटं दूत्यं कृतमित्यादावेव तैर्ज्ञातमिति [१] सूचितम् ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
संदृब्धार्णववर्णनस्य नवमस्तस्य व्यरंसीन्महा-
 काव्ये चारुणि नैषधीयचरिते सगों निसर्गोज्ज्वलः॥९॥

 श्रीहर्षमिति ॥ अर्ध पूर्ववत् । संदृब्धो गुम्फितः अर्णववर्णनाख्यो ग्रन्थो येन । अर्णववर्णनाख्योऽपि ग्रन्थस्तेन कृत इत्यर्थः । व्यरंसीत् , 'व्याङ्परिभ्यो रमः' इति परस्मैपदम् 'यमरमनमातां सक् च' इतीट्सगागमौ ॥

 इति श्रीवेदरकरोपनामश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे नवमः सर्गः॥

दशमः सर्गः।


 इदानी स्वयंवरस्य पूर्वरङ्गवर्णनार्थं दशमं रूर्गमारभते--

  रथैरथायुः कुलजाः कुमाराः शस्त्रेषु शास्त्रेषु च दृष्टपाराः ।

  स्वयंवरं शंबरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः ॥१॥


  1. 'अत्र छेकानुप्रासोलंकारः, मालिनी वृत्तम्' इति साहित्यविद्याधरी।