पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
नैषधीयचरिते

निष्पादकस्य मधोर्वसन्तस्य सखा । वसन्ते पुष्पबाहुल्यात्स एव कामकाण्डकारः। चण्डाल एव काण्डकारो भवति । 'तत्संसर्गी च पञ्चमः' इति वचनात्कामस्यापि चण्डालत्वम्, तस्मान्मृषामरत्वं कामस्य । अङ्गुल्याद्यङ्गकर्तनाञ्चण्डालोऽप्यनङ्गो भवति । तस्मान्मारयैनमिति भावः। चण्डालोऽपि मारणार्थं विश्वासजनकं वेषं गृह्णाति । मां, 'न लोका-' इति षष्ठीनिषेधः । काण्डकारः, 'कर्मण्यण्[१]

  लघौ लघावेव परे बुधैर्विधेयमुत्तेजनमात्मतेजसः ।

  तृणे तृणेढि ज्वलनः खलु ज्वलन्क्रमाकरीषद्रुमकाण्डमण्डलम्॥

 लघाविति ॥ बुधैः पण्डितैः लघौ लघौ अल्पतरे परे शत्रौ पुरः प्रथममात्मतेजस उत्तेजनं संधुक्षणं विधेयं करणीयम् । अल्पवैरिजयाभ्यासेन महान्वैरी जेतव्यः । अल्पतरः शत्रुः सर्वथा नोपेक्षणीय इत्यर्थः । खलु यस्माज्ज्वलनोऽग्निः तृणे निःसारेऽधिकरणे ज्वलन् क्रमात्परिपाट्या करीषं शुष्कगोमयचूर्णं द्रुमकाण्डमण्डलं वृक्षस्कन्धसमूहं च तृणेढि हिनस्ति ज्वलयति । यथा तेजस्विनामवधिरग्निरप्यादावल्पं शत्रुं नाशयति, पश्चान्महान्तमिति तथा त्वयापि कर्तव्यम् । मदनो नोपेक्षणीय इति भावः । तृणेढि, 'तृणह इम्' ढत्वादि । हीनतयापि कामस्यावगणना न कर्तव्ये[२] त्यर्थः॥

  सुरापराधस्तव वा कियानय स्वयवरायामनुकम्प्रता मयि

  गिरापि वक्ष्यन्ति मखेषु तर्पणादिदं न देवा मुखलज्जयैव ते ॥१५३॥

 सुरेति ॥ वा संभावनायाम्। स्वयं स्वानुरागेणैव या वृणुते, न तु केनचित्प्रेरिता तादृश्यां स्वयंवरायां मयि मदङ्गीकारलक्षणा यानुकम्प्रता दयालुत्वं अयं तव सुरेषु विषयेऽपराधः कियान्वा । अपि त्वल्पतरः। मयि धर्मपत्न्यां मखेषु त्वत्कृतात्तर्पणात्तृप्तेर्हैतोः मुखलज्जयैव मुखदाक्षिण्येनैव ते देवा इदं त्वया दूत्येऽस्माकमपराद्धमितीदं गिराऽपि न वक्ष्यन्ति । अन्तःकरणेन धारयिष्यन्तीति किं वाच्यम् । मयैव स्वेच्छावरणात्स्वल्पोऽपि तवापराधो नास्तीत्यर्थः । सर्वथा त्वयाहमनुग्राह्येति भावः। ते तव मुखलज्जयेति वा । अन्योऽपि बहूपकारिणाल्पतरेऽपराधे कृतेऽपि तन्मुखदाक्षिण्यात्किमपि न वक्ति । स्वयंवरा, प[३]चाद्यच् ।

  व्रजन्तु ते तेऽपि वरं स्वयंवरं प्रसाद्य तानेव मया वरिष्यसे

  न सर्वथा तानपि न स्पृशेद्दया न तेऽपि तावन्मदनस्त्वमेव वा ॥

 व्रजन्त्विति ॥ ते देवा अपि त्वत्संबन्धिनं वरं श्रेष्ठं स्वयंवरदेशं वरं कामं वा व्रजन्तु। तानेवेन्द्रादीन्प्रसाद्य प्रसन्नान्कृत्वा मया त्वं वरिष्यसे । त्वद्वरणार्थमागतास्त्वया प्रत्युक्ताः कथं प्रसन्नाः स्युरित्यत आह-नेति । दया तानिन्द्रादीनपि सर्वथा लेशतोऽपि न स्पृशेदिति न, अपितु स्पृशेदेव । ते मय्यल्पामपि दयां करिष्यन्त्येवेत्यर्थः । यतः-


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासार्थान्तरन्यासालंकारौं' इति साहित्यविद्याधरी
  3. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी