पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०९
नवमः सर्गः।

  कथासु शिष्यै वरमद्य न ध्रिये ममावगन्तासि न भावमन्यथा ।

  त्वदर्थमुक्तासुतयासुनाथ मां प्रतीहि जीवाभ्यधिक त्वदेकिकाम् ॥ १४९ ॥

 कथास्विति ॥ हे नल, अद्य एतावत्यामपि पीडायां सत्यां कथानु शिष्यै गोष्टीशेपीभवानि म्रियै । वरमेतन्मनागिष्टम् । न प्रिये न तिष्ठामि । न जीवामीत्यर्थः । अन्यथा मरणेन विना त्वं मम भावमनुरागं नावगन्तासि नावगमिष्यसि । अत एव सुनाथ सुस्वामिन् , अत एव जीवाभ्यधिक प्राणेभ्योऽप्यतिप्रिय त्वदर्थमुक्तासुतया त्वदर्थं त्यक्तप्राणतया कृत्वा मां त्वदेकिकां त्वं एकः केवलो यस्या एवंविधां त्वदेकशरणां प्रतीहि जानीहि । यत्प्राणेभ्योऽधिकं तदर्थमेव प्राणास्त्यज्यन्ते । त्वं च मम प्राणाधिकः शोभनस्वामी च । शोभनश्च स्वामी सेवकं स्वार्थं त्यक्तप्राणं ज्ञात्वानुकम्पत इत्यर्थः । त्वदर्थे भैम्या प्राणास्त्यक्ता इति लोकमुखादाकर्ण्य स्वस्मिन्ममानुरागं ज्ञास्यसि नान्यथेति मरणमेव युक्तमिति भावः । असूनां नाथ अत एव जीवाभ्यधिक, इति वा । न सुनाथोऽसुनाथः । सुनाथः केनचिव्द्यापारेण सेवकं स्वानुरागिणं जानाति । त्वं तु असुनाथत्वात्प्राणव्ययेन विना न जानासीत्युपालम्भोऽपि सूचितः । आशु नाथ इति क्वचित् । शिष्यै, देवादिकस्य शिषेर्लोडुत्तमैकवचनम् । ध्रिये, लडुत्तमैकवचनम् । त्वदेकिकाम्, 'शेषाद्विभाषा' इति कप्[१]

  महेन्द्रहेतेरपि रक्षणं भयाद्यर्थिसाधारणमस्त्रभृद्रतम् ।

  [२] प्रसूनबाणादपि मामरक्षतः क्षतं तदुच्चैरवकीर्णिनस्तव ॥ १५०

 महेन्द्रेति ॥ महेन्द्रहेतेरिन्द्रायुधादपि यद्भयं तस्माद्यद्रक्षणम्, यद्वा भयहेतोर्व्रजाद्रक्षणं, तत् अस्त्रभृतां शूराणां व्रतं अर्थिषु शरणागतेषु साधारणम् । पुरुषो रक्षणीयो, न तु स्त्रीति; स्त्री रक्षणीया, न तु पुमानिति पक्षपातरहितं क्षत्रियाणां व्रतं नियमः। तत् अवकीर्णिनो भग्नव्रतस्य तव व्रतमुच्चैरतितरां क्षतं विनष्टम् । यतः-प्रसूनबाणात्कामात्, प्रसूनरूपाद्बाणाद्वा मामरक्षतो रक्षणमकुर्वाणस्य । यः पुष्पादपि रक्षितुं न शक्नोति, स वज्रात्कथं रक्षितुं शक्ष्यतीति संभावनापि कुतस्त्येत्यपिशब्दार्थः[३]

  तवास्मि मां धातुकमप्युपेक्षसे मृषामरं हाऽमरगौरवात्स्मरम्।

  अवेहि चण्डालमनङ्गमङ्ग तं स्वकाण्डकारस्य मधोः सखा हि सः ॥ १५१ ॥

 तवेति ॥ अहं तवास्मि । त्वं तु मां धातुकं हन्तारं मृषामरं मिथ्यादेवं स्मरममरगौरवात् देवत्वबुद्धया उपेक्षसे । हा कष्टम् । अनुचितमेतत् । देवत्वबुद्धिं त्यक्त्वा एनं मारयेति भावः । अन्योऽपि स्वीयं मारयन्तं नोपेक्षते, किंतु हन्ति । कामस्य मृषामरत्वमाह-अङ्ग प्रियतम, तं अनङ्गं चण्डालमेवावेहि जानीहि । चण्डाले दया नोचिता। हि यस्मात् स कामः स्वकाण्डकारस्य स्वस्य काण्डाः पुष्पलक्षणा बाणास्तेषां


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।
  2. 'न सूनबाणादपि' इति जीवातुसाहित्यविद्याधरीसंमतः पाठः ।
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।