पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
नैषधीयचरिते

  निजाशुनिर्दग्धमदङ्गभस्मभिर्मुधा विधुर्वाञ्छति लाञ्छनोन्मृजाम्

  त्वदास्यता यास्यति तावतापि किं वधूवधेनैव पुनः कलङ्कितः ॥

 निजांशुनिर्दग्धेति ॥ विधुश्चन्द्रो निजांशुभिः स्वकिरणैः निर्दग्धं ममाङ्गं तस्य भस्मभिः कृत्वा लाञ्छनोन्मृजां स्वीयकलङ्कप्रोञ्छनं मुधा वृथा वाञ्छति । वैयर्थ्यमेवाहतावतापि मदङ्गभस्मभिर्लाञ्छनप्रोञ्छने कृतेऽपि त्वदास्यतां त्वन्मुखत्वं यास्यति किम्। अपि तु न । किंतु गतेऽपि लाञ्छने वधूवधेन स्त्रीवधजनितपातकेन पुनः कलङ्कित एव । त्वन्मुखसादृश्यं कलङ्कित्वान्न प्राप्नोत्येवेत्यर्थः । चन्द्रोऽतितमां मां पीडयतीति भावः । अन्यस्याप्यादर्शादेर्मलिनस्य भस्मना लाञ्छनप्रोञ्छनं क्रियते । कलङ्कवान्कृतः 'तत्करोति-' इति णिचि मतुब्लोपे निष्ठा । वधूवधेन कर्तरि तृतीया, करणे तु तार[१]कादिः॥

  प्रसीद यच्छ स्वशरान्मनोभुवे स हन्तु मां तैर्धुतकौसुमाशुगः ।

  त्वदेकचित्ताहमसून्विमुञ्चती त्वमेव भूत्वा तृणवज्जयामि तम् ॥ १४७ ॥

 प्रसीदेति ॥ हे नल, त्वं ममोपरि प्रसीद स्वशरान्मनोभुवे यच्छ देहि । स कामो धुतास्त्यक्ताः कौसुमा आशुगा बाणा येनैवंभूतः सन् तैर्भवदीयैः शरैः मां हन्तु । कामबाणाः पीडयन्ति, न तु झटिति प्राणवियोगं कुर्वन्ति त्वदीया बाणा लौहत्वादतितीक्ष्णत्वाच्च झटिति प्राणवियोगं कुर्वन्ति, न तु पीडाम् तस्मात्तान्मदनाय देहि एतावदेव तव प्रसन्नत्वम् । तैर्बाणैर्मा मारयिष्यति । मरणे को लाभ इत्याशङ्कयाह-त्वदेकचित्ता असून्विमुञ्चती अहं त्वमेव त्वद्रूपैव भूत्वा तं कामं तृणवत् तृणमिवाप्रयासेन जयामि । त्वया सौन्द्रर्येण कामस्य जितत्वात्त्वद्रूपलाभात्स मया जेतुं शक्यत इत्यर्थः । 'मरणे यादृशी जन्तोर्भावना यस्य जायते । तादृशं लभते जन्म स भूयो हि स्वकर्मभिः॥' इति वचनात् । 'यं यं वापि स्मरन्भावम्-' इत्यादिभगवद्वचनप्रामाण्याच्च मम त्वद्रूपप्राप्तिरित्यर्थः । मुञ्चती मुचेस्तौदादिकत्वात् ‘आच्छीनद्योर्नुम्' इति नुम्विकल्पान्नुमभावः[२]

  श्रुतिः सुराणा गुणगायनी यदि त्वदङ्घ्रिमग्नस्य जनस्य किं ततः ।

  स्तवे रवेरप्सु कृताप्लवैः कृते न मुह्वती जातु भवेत्कुमुद्वती॥१४॥

 श्रुतिरिति ॥ श्रुतिः वेदः यदि सुराणां देवानां गुणगायनी गुणवर्णनपरा, ततः तर्हि त्वदङ्घ्रिमग्नस्य त्वञ्चरणानुरागिणो मल्लक्षणस्य जनस्य ततो वेदकृताद्देवगुणवर्णनादपि किम् । अन्यत्रानुरक्तस्योत्तमेनान्यवर्णने कृतेऽपि तत्रानुरागो नोत्पद्यत इत्यर्थः । यतः- अप्सु कृताप्लवैः कृतस्नानैः पुरुषैः रवेः सूर्यस्य स्तवे कृतेऽपि कुमुद्वती कुमुदिनी जातु कदाचिदपि मुद्वती सूर्यविषये हर्षवत्यनुरागिणी न भवेत् । तस्याश्चन्द्र एवानुरागात् 'तद्वन्ममे[३]त्यर्थः॥


  1. 'अत्र छेकानुप्रासातिशयोक्त्यलंकारौ ' इति साहित्यविद्याधरी । 'अत्र विधोर्नलास्यसाम्याय भैम्यङ्गभस्मभिः स्वकलङ्कमार्जनाद्वधूवधकलङ्कप्राप्तिकथनादनर्थोत्पत्तिरूपो विषमालंकारः' इति जीवातुः ।
  2. 'अत्रातिशयोक्त्युपमालंकारौं' इति साहित्यविद्याधरी
  3. 'अत्र दृष्टान्तोलंकारः' इति जीवातुसाहित्यविद्याधर्यौ