पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०५
नवमः सर्गः।

 नलमिति ॥ सा भीमजा तदा तं दूतं निजे आशये मनसि नलं नलनामकं राजानमवेत्य निश्चित्य घृणां जुगुप्सां विगानं निन्दां च मुमोच अर्थान्मनस एव । निजाशये विषये घृणां विगानं च मुमोचेति वा योज्यम् । एतन्मनः स्वभावतोऽप्रशस्तमिति जुगुप्सा, अनुचितकारि चैतदिति निन्दा । यद्वा-नलप्रात्यनाशया शरीरे घृणा, परपुरुपसंवादशङ्कया निन्दा । कीदृशी तदा नलज्ञानावसरे सतीधिया पातिव्रत्यबुद्ध्या धृतं नियमितं बलात्कारेण तस्मात्परावर्तितमित्यर्थः । दैवतदूतं प्रति धावि मनो हि निश्चयेन जुगुप्समाना निन्दन्ती । पतिव्रतया नियन्त्रितं मनो दूते धावतीति जुगुप्समाना निन्दन्तीत्यर्थः । यद्वा-हि यस्मात् सा तदा सतीधिया धृतं मनो दैवतदूतधावि जुगुप्समानाऽभूदिति योजना । नलान्यदेवदूतगामित्वादप्रशस्तमेतन्मदीयमन्तःकरणमनुचितकारिचेति पूर्वं यतो जुगुप्सितवती निन्दितवती च, नलनिश्चयानन्तरमत्रानुरक्तं यन्मदीयं मनस्तत्साध्वेव जातमिति जहर्षैवेति भा[१]वः॥

  मनोभुवस्ते भविनां मनः पिता निमज्जयन्नेनसि तन्न लज्जसे।

  अमुद्रि सत्पुत्रकथा त्वयेति सा स्थिता सती मन्मथनिन्दिनी धिया॥

 मनोभुव इति ॥ भविनां प्राणिनां मनः मनोभुवः ते तव पिता । यतः-त्वं मन एव भूः उत्पत्तिस्थानं यस्य, तस्मान्मनस्तव पिता । हे काम, त्वं स्वपितृभूतं तत् मनः एनसि परपुरुषाभिलाषजनिते पातके निमज्जयन् न लज्जसे काकुः । त्वया सत्पुत्रकथा सद्भिः पुत्रैः पितरः पुण्याँल्लोकान्यान्तीति कथा अमुद्रि समापिता । नलत्वनिश्चयात्पूर्वं धिया मनसा इति पूर्वोक्तप्रकारेण मन्मथनिन्दिनी सती पतिव्रता वा सा भैमी स्थिता नलत्वनिश्चयानन्तरं कामनिन्दनादुपरते[२]त्यर्थः ॥

  प्रसूनमित्येव तदङ्गवर्णना न सा विशेषात्कतमत्तदित्यभूत् ।

  तदा कदम्बं तदवर्णि लोमभि[३]र्मुदस्रुणा प्रावृषि हर्षमागतैः॥१३९॥

 प्रसूनमिति ॥ पूर्वं सौकुमार्याद्भैमीशरीरं पुष्पमिति तदङ्गवर्णना सामान्याकारेणाभूत् परं तु तत्पुष्पं कतमत् , किंजातीयमिति सा वर्णना विशेषात् विशेषाकारेण भैमीशरीरमेतज्जातीयमिति नाभूत् । तदा तदीयनलत्वनिश्चयसमये मुदस्रुणा प्रावृषि हर्षास्रुजनितवर्षाकाले हर्षमुन्निद्रत्वमागतैः प्राप्तैः लोमभिः भैमीरोमभिः कर्तृभिः तत् भैमीशरीरं पुष्पं वा कदम्बपुष्पमवर्णि कथितम् । कदम्बानि हि प्रावृट्काले विकसन्ति । भैम्यङ्गमुन्निद्रै रोमभिः कदम्बतुल्यमभूदित्यर्थः । हर्षवशादस्रुरोमाञ्चादि तस्यां जातमिति भा[४]वः॥

  मयैव संबोध्य नलं व्यलापि यत्स्वमाह मड्बुड्वमिदं विमृश्य तत् ।

  असाविति भ्रान्तिमसाद्दमस्वसुः [५]स्वभाषितस्वोद्भ्रविभ्रमक्रमः ॥


  1. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र हेतुरलंकारः' इति साहित्यविद्याधरी।
  3. 'दगम्बुना' इति साहित्यविद्याधरी।
  4. 'अत्रातिशयोक्तिर्भावोदयालंकारः' इति साहित्यविद्याधरी।
  5. 'सुभाषित-' इति पाठः साहित्यविद्याधरीसंमतः ।