पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०३
नवमः सर्गः ।

विरहजां वेदनां नान्वभवम् । किं तु परमानन्दमन्वभवम् | उन्मादेन सुखवशान्मया विरहपीडा विस्मृता तस्मादियमुन्मादिता मम गुणायैव जातेति भावः। अथ च न योगः अयोगः, तज्जां संसारसंबन्धिनीं पीडां नान्वभवम् । किंतु परमानन्दमन्वभवमित्यर्थः । तत्रार्थान्तरन्यासं सोपमानमाह-दोषादपि दोषभूतादपि एकस्माद्धेतोः दोषभूतस्याप्यन्यस्य लाघवं अल्पत्वलक्षणो गुण उदेति । कस्मात् कस्य किमिव-अज्ञानवशादज्ञानलक्षणदोषवशाहोषभूतस्याप्येनसः पातकस्य कृशत्वमल्पत्वमिव । अल्पत्वलक्षणो गुणो भवति । ज्ञानपूर्वं ब्रह्महत्यादौ 'कामात्तद्विगुणं भवेत्' इति बहुप्रायश्चित्तान्मानात्पातकगौरवमवगम्यते, अज्ञानकृते लघुप्रायश्चित्तान्मानात्पातकलाघवमिति । अज्ञानलक्षणाद्दोषाद्दोषभूतस्य पातकस्य लाघवलक्षणो गुणो यथा लभ्यते, तथोन्मादलक्षणाद्दोषाद्विरहवेदनादोषस्य लाघवलक्षणो गुणो मयापि लब्ध इति भावः । उन्मादितायां कियतोपि दुःखस्य शेषत्वसूचनार्थं वेदनापदम् । मे हितयोगे चतुर्थी । भावप्रत्ययान्तस्य गुणवाचिनः शब्दस्य ‘पूरणगुण-’ इति समासनिषेधाद्दोषलाघवमित्यत्र समासाप्राप्तेः ‘तदशिष्यं संज्ञाप्रमाणत्वात्’ इति ज्ञापकाद्बुद्धिमान्द्यं, करणपाटवमित्यादिमहाकविप्रयोगदर्शनाच्च निषेधस्यानित्यत्वात्समासो द्रष्टव्यः । एवमेवमादिषु प्रयोगेषु ज्ञातव्यम्[१]

 [२]तवेत्ययोगस्मरपावकोऽपि मे कदर्थनात्यर्थतयाऽगमद्दयाम्।
 प्रकाशमुन्माद्य यदद्य कारयन्मयात्मनस्त्वामनुकम्पत स्म स:॥ १३३ ॥

तवेति ॥ तव त्वत्संबन्धी त्वद्विषयो मन्निष्ठः स प्रसिद्धः पूर्वं कृतपीडः अयोगी वियोगस्तज्जनितः स्मरपावको ममैव कदर्थनात्यर्थतया पीडाबाहुल्येनाप्यतिपीडाकारित्वेनापि इति पूर्वोक्तप्रकारेण मे मम दयामगमत् । चकारेत्यर्थः। इति किम्-यद्यस्मादू अद्य त्वद्विलापसमये मामुन्माद्योन्मादं प्रापय्य मया प्रयोज्येनात्मनो ममैव नलोहमिति प्रकाशं प्राकट्यं कारयन् त्वामनुकम्पते स्म सेवते स्म । तेन ममैव कृपा कृतेत्यर्थः । त्वद्विषयो वियोगाग्निर्यदि ममातिपीडां नाकरिष्यत् , तदोन्मादाभावान्मयात्मप्रकाशनमपि नाकरिष्यत, ततश्च मत्प्राप्तिविघातनिश्चयात्त्वन्मरणमेव स्यात् , त्वद्वियोगान्ममापि मरणं स्यात् तस्मात्पीडयोन्मादाधिक्यान्मयात्मनः प्राकट्ये कृते मत्प्राप्तिनिश्चयात्त्वया प्राणा रक्षिताः, तस्माच्च मत्प्राणा अपि तेन रक्षिता, इति स स्मराग्निर्मम दयामेव चकारेति भावः । कामाग्निः कदर्थनात्यर्थतयापि मे दयां चकार । कुतः-तवेति, त्वदीयोहमिति त्वा[३] पीडयत्येव, त्वत्संबन्धान्मामपि पीडयति । इयं तस्य कृपैव भैमी मामेव वरिष्यति, नान्यमिति निश्चयात् । योजनान्तरमुपेक्षणीयम्[४]

 अमी समीहैकपरास्तवामराः स्वकिंकरं मामपि कर्तुमीशिषे ।
 विचार्य कार्यं सृज मा विधान्मुधा कृतानुतापस्त्वयि पार्ष्णिविग्रहम्॥

अमी इति ॥ अमी अमरास्तव समीहैकपरास्त्वदभिलाषकेवलनिष्ठाः त्वामेवाभिल-


  1. 'अत्रोपमालंकारः इति साहित्यविद्याधरी
  2. 'न वा' इति साहित्यविद्याधरीसंमतः पाठः
  3. 'मयात्मनो मामनु-' इति साहित्यविद्याधरीपाठः।
  4. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी।