पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२
नैषधीयचरिते

धतां स्वीयमनुचितकारित्वं पश्यञ्जानन् कूटसाक्षीभवनोचितो न भवति कूटोऽसत्यश्चासौ साक्षीव सत्येपि परकीयेऽर्थेऽलीकं भाषते स कूटसाक्षी अकूटसाक्षिणः कूटसाक्षिणो यद्भवनं तत्कूटसाक्षीभवनम् । तदुचितो न भवतीत्यर्थः । हि यस्मात् सतां चेतःशुचिता आत्मैव साक्षी यस्यामेवंविधा, न तु परसाक्षिका मया निष्कपटं दूत्यं कृतमिति त्वं तावज्जानासि, सन्तश्चालीकं भाषितुमपि स्वचेतस एव लज्जन्ते । तव च सत्यत्वं लोकत्रयप्रसिद्धम् । देवा अपि सर्वसाक्षित्वात्स्वयमेव त्वदीयं शुद्धत्वं ज्ञास्यन्ति, किमनेन लोकेनेति भावः । आत्मसाक्षिका 'शेषाद्विभाषा' इति कप्[१]

 इतीरिणापृच्छय नलं विदर्भजामपि प्रयातेन खगेन सान्त्वितः ।
 मृदुर्बभाषे भगिनीं दमस्य स प्रणम्य चित्तेन हरित्पतीन्नृपः १३०

 इतीति ॥ स नृपः चित्तेन हरित्पतीन्प्रणम्य अतः परं मम करणीयमपि नावशिष्टम् , क्षम्यतामिति मनसैव देवान्नमस्कृत्य मृदुःसदयः सन् दमस्य भागिनीं बभाषे। किंभूतःइति पूर्वोक्तमीरिणा ब्रुवाणेन नलं विदर्भजामपि आपृच्छय प्रयातेन यातुमारब्धेन खगेन हंसेन सान्त्वितः। प्रयातेन 'आदिकर्मणि क्तः कर्तरि च' इति क्तः॥

 ददेऽपि तुभ्यं कियतीः कदर्थनाः सुरेषु रागप्रसवावकेशिनीः ।
 अदम्भदूत्येन भजन्तु वा दयां दिशन्तु वा दण्डममी ममागसाम॥

 ददेऽपीति ॥ हे भैमि, तुभ्यमपि अतिनिर्दयदूत्यकरणजनिताः कियतीः कतिसंख्याकाः कदर्थनाः पीडाः ददे ददामि, अतः परं तद्विषयं किमपि न वदिष्यामीत्यर्थः । यतः-सुरेषु रागोऽनुरागः, तल्लक्षणः, तस्य वा प्रसवोऽङ्कुर उत्पत्तिर्वा तस्यावकेशिनीर्निष्फलाः, अनुरागानुत्पादिका इत्यर्थः। उद्यमः कार्यजनकश्चेद्भवति तर्हि दुःखमपि दातुमुचितम् । प्रकृते तावति दूत्ये कृतेऽपि तव तेष्वनुरागाङ्कुरोऽपि नोत्पन्नः तस्मात्तव पीडाकरमतः परं किमपि न वदिष्यामीति भावः। यत्राङ्कुरोत्पत्तिरपि नोदेति तत्र फलाशा कुतस्त्या । तव पीडादाने ममापि पीडा भवतीत्यपिशब्दार्थः । गर्हायां वाऽपिः। अनुचितमेतदित्यर्थः । एवं सति अमी देवाः अदम्भदूत्येन निष्कपटदूत्येन कृत्वा दयां मम कृपां वा भजन्तु कुर्वन्तु । कार्यासाधनरूपेणागसा अस्मदीयं कार्यं विनाश्य स्वीयं कृतमित्यपराधेन दण्डं शासनं वा दिशन्तु कुर्वन्तु । तत्कृतं दण्डमपि सहिष्ये, परं तुभ्यं दुःख दातुं नोत्सहे इति भावः[२]

 अयोगजामन्वभवं न वेदनां हिताय मेऽभूदियमुन्मदिष्णुता।
 उदेति दोषादपि दोषलाघवं कृशaवमज्ञानवशादिवैनसः ॥१३२॥

 अयोगजामिति ॥ इयं उन्मदिष्णुता मे मह्यं हितायाभूत् । यतः--अहं अयोगजां

  1. 'अत्रार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी ।
  2. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी।