पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९९
नवमः सर्गः।

  मुनिर्यथात्मानमथ प्रबोधवान् प्रकाशयन्तं स्वमसावबुध्यत ।

  अपि प्रपन्नां प्रकृतिं विलोक्य तामवाप्तसंस्कारतयासृजङ्गिरः ॥ १२१ ॥

 मुनिरिति ॥ अथ प्रबोधवान् गतभ्रान्तिरसौ नलः नलोऽहं नलत्वेन प्रकाशयन्तं कथयन्तं स्वमात्मानमवुध्यत जानाति स्म । आत्मानं कथयता मया दूतधर्मः परित्यक्तः अनुचितं कृतमित्यजानादित्यर्थः । नलत्वकथनमात्रेण तां च भैमी प्रकृतिं रोदनात्पूर्वावस्थां प्रपन्नां प्राप्तां विलोक्य जातबोधत्वादृतोऽहमित्यवाप्तसंस्कारतया प्राप्तबुद्धितया वक्ष्यमाणा गिरोऽपि असृजत् । नलत्वनिश्चयेन त्यक्तरोदनां तां दृष्ट्वा स्वात्मानमेवोद्दिश्य दूतधर्मोचितमाह स्मेत्यर्थः । नलत्वनिश्चयेन गतमोहत्वम् , तेन प्राप्तबोधतया प्रकृतिं प्रपन्नामिति वान्वयः । उद्बुद्धदूत्यसंस्कारत्वेन प्रपन्नां प्राप्तामागतां तां दू. तधर्मयुक्तां स्वामेव प्रकृतिं विलोक्य दूतधर्मोचितमेवावोचदिति वा.। मुनिर्यथा यतिरिव । वेदान्ताभ्यासेन शमदमादिद्वारा प्रवोधवान्संसारविनाशसमर्थप्रकृष्टज्ञानयुक्तो यतिः स्वप्रकाशं सच्चिदानन्दैकरसमात्मानं 'अहं ब्रह्मास्मि' इति वुध्यते,बुद्धवा च उद्बुद्धजन्मान्तरीयसंस्कारतया प्राप्तब्रह्मज्ञानतया वा तां प्रसिद्धां संसारजनिकां सत्त्वरजस्तमः- साम्यास्थारूपां प्रकृतिमनादिमविद्यां प्रकर्षेण पन्नां पृथग्भूतां ज्ञात्वा 'अहं मनुरभवं सूर्यश्वाहम्', 'कक्षीवानृषिरस्मि विप्रः', 'अहं कुत्समार्जुनेयं सृजे', 'अहं कविरुशना पश्यताम्' इत्यादि वामदेवऋषिवदित्यर्थः । मुनिरप्यात्मानं प्रकृतिं च विवेकेन ज्ञात्वा मुक्तः सन् वागादिव्यवहारान्सृजति मुञ्चतीति केचित्[१]

  अये मयात्मा किमनिहूतीकृतः किमत्र मन्ता स तु मां शतक्रतुः ।

  पुरः स्वभक्त्याथ नमन्ह्रियाविलो विलोकिताहे न तदिङ्गितान्यपि ॥

 अये इति ॥ मया नलोऽहमिति आत्मा किमित्यनिह्रुतीकृतः प्रकटीकृतः। अये खेदे । महदनुचितं कृतमित्यर्थः । अत्रात्मप्रकटनविषये स शतक्रतुः तु पुनः मां किं किंप्रकार मन्ता ज्ञास्यति । मामसाधुमेव ब्रूयादित्यर्थः । शापदानसामर्थ्यद्योतनाय शतक्रतुरिति पदम् । पुरः पूर्वं स्वभक्त्या नमन्सन् अथ पश्चाद् ह्रिया अकृतकार्यत्वाल्लच्जया आविलः कलुषितः सन् । सुतरां नमन्नित्यर्थः । तदिङ्गितान्यपि कोपाविष्टस्येन्द्रस्य भ्रूभङ्गादीन्यपि न विलोकिताहे विलोकयिष्यामि । प्रसादलाभस्तु दूरतः । अन्योप्यपराधी स्वामिनः कोपचिह्नं भ्रूकुट्यादि न विलोक[२]यति ॥

  स्वनाम यन्नाम मुधाभ्यधामहो महेन्द्रकार्यं महदेतदुज्झितम् ।

  हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दूत्यपथः सितीकृतः ॥१२३॥

 स्वनामेति ॥ नाम प्राकाश्ये खेदे वा । अहं यत् स्वनाम मुधा व्यर्थमेवाभ्यधां एतत् महत् महेन्द्र कार्यमुज्झितं त्यक्तम् । विनाशितमित्यर्थः । अहो महदनुचितमेतत् । अनुचितत्वमेवाह-हनूमदाद्यैः श्रीरामादिदूत्यकारिभिः दूत्यपथः यशसा कीर्त्या सिती-


  1. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र च्छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी।