पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
नैषधीयचरिते

ओष्टपाननखक्षतेच्छुरस्मीति भावः । अधित्यकेति स्तनयोरुदयशैलत्वच्चन्द्रकलायास्तत्रोदयात्कलोदयसमये रक्ता भवति । अधराय, 'स्पृहेरीप्सितः' इति संप्रदानत्वम्[१]

  न वर्तसे मन्मथनाटिका कथं प्रकाशरोमावलिसूत्रधारिणी।

  तवाङ्गहारे रुचिमेति नायकः शिखामणिश्च द्विजराड्विदूषकः ॥ ११८ ॥

 नेति ॥ हे भैमि, प्रकर्षेण काशते शोभते प्रकाशा शोभमाना रोमावलिरेव सूत्रं धारयत्येवंशीला त्वं मन्मथनाटिका कामस्योन्मादयित्री कथं न वर्तसे। अपि तु कामं सहर्षं करोषि । अङ्ग संबोधने, तव हारे मुक्ताहारे नायको मध्यमणिः रुचिमेति देदीप्यते । च परं उज्ज्वलतरत्वाद्वर्तुलतरत्वादाह्लादकतरत्वाच्च द्विजराड्विदूषकः चन्द्रतिरस्करणशीलः शिखामणिर्मुकुटमणिः शिखायां निबद्धो वा मणिरपिरुचिमेति। द्विजराड्विदूषकत्वमुभयोरपि वा । तव विलोकनान्मदीयः कामः सहर्षी भवति । वर्धतेतरामिति भावः। नाटिकापक्षे-प्रकाशरोमावलिरेव सूत्रधारो नान्दीश्लोकानन्तरसंचारी कथाप्रस्तावकः पात्रविशेषः सोऽस्या अस्तीति । तथा-तवाङ्गहारेऽङ्गविक्षेपे नृत्ये नायकः सभापतिरुचिं प्रीतिमेति । तथा-द्विजराट् ब्राह्मण एव विदूषकश्च परिहासकं मिन्नं रुचिमेति। शिखायां मणिरस्य विदूषकस्य । नायकस्य वा सः । 'अङ्गहारोऽङ्गविक्षेपः' इत्यमरः । 'पीठमर्दो विटश्चैव विदूषक इति त्रिधा' । 'हासकृच्च विदूषकः' इत्यालंकारिकाः[२]

  शुभाष्टवर्गस्वदनङ्गजन्मनस्तवाधरेऽलिख्यत यत्र लेखया।

  मदीयदन्तक्षतराजिरञ्जनैः स भूर्जतामर्जनु बिम्बपाटलः ॥११९॥

 शुभेति ॥ हे भैमि, तव अनङ्गस्य कामस्य जन्मन उत्पत्तेः शुभसूचकोऽष्टवर्गः ज्योतिः- शास्त्रप्रसिद्धः स लेखया यत्र तवाधरेऽलिख्यत । ज्योतिर्विदा ब्रह्मणैवेत्यर्थः। बिम्बफलवत्पाटलवर्णः सोऽधरः मदीया दन्तक्षतराजिः, तया कृत्वा रञ्जनानि, तैः कृत्वा भूर्जतामर्जतु । न अङ्गजन्माऽनङ्गजन्मा मानसः पुत्रः । तस्योत्तमत्वात्तजन्मपत्रिका ज्योतिर्विदा भूर्जपत्र एव लिख्यते । पुत्रे जाते ज्योतिर्विदा तस्य जन्मकालीनः शुभाष्टकवर्गो लिख्यते । त्वदोष्ठोष्टरेखावान् दन्तक्षतसुन्दरो भूर्जपत्रेणोपमीयते । अष्टकवर्गस्तु ज्योतिःशास्त्रोक्तो ज्ञातव्यः। लेखया । लेखाभिरित्य[३]र्थः ॥

  गिरानुकम्पस्व दयस्व चुम्बनैः प्रसीद शुश्रूषयितुं मया कुचौ ।

  निशेव चान्द्रस्य करोत्करस्य यन्मम त्वमेकासि नलस्य जीवितम्॥

 गिरेति ॥ त्वं गिरानुकम्पस्वानुगृहाण । चुम्बनैर्दयस्वानुकम्पस्व । मया प्रयोज्येन कुचौ शुश्रूषयितुं प्रसीद । यद्यस्मात्त्वं एका केवला नलस्य मम जीवितमसि । कस्य केव-चान्द्रस्य करोत्करस्य किरणसमूहस्य निशेव रात्रिरिव । तस्य जीवनं नान्या तथेति पूर्ववत् । त्वदधीनजीवित एवाहम् , चुम्बनादिना मामनुगृहाण, अन्यथा जीवनमेव न भविष्यतीति [४]भावः॥


  1. 'अत्र छेकानुप्रासातिशयोक्त्युपमाक्षेपालंकाराः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिरूपकश्लेषालंकाराः' इति साहित्यविद्याधरी।
  3. अस्य श्लोकस्य जीवातुसाहित्यविद्याधयाँ नोपलभ्येते।
  4. 'अत्रोपमातिशयोक्तिहेत्वलंकाराः' इति साहित्यविद्याधरी