पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९७
नवमः सर्गः।

त्यर्थात् । एवं न न । अविचार्य मयैतदुक्तम् । किंतु त्वं मदुत्सङ्गविभूषणं भव । ममाङ्कं मण्डयेत्यर्थः । अङ्कापेक्षयार्धासनस्य निकृष्टत्वात् , तव चातिप्रियत्वान्ममाङ्क एवोपवेशनयोग्य इति भावः । अङ्ग भो अहं इत्येतद्भ्रमादुन्मादवशादालपम् । त्वया मृष्यतां क्षम्यताम् । यतः मम उरो विना कतमत् अङ्गं तव आसनं भवितुं योग्यम्, अपि न किमपि । अङ्कापेक्षयापि वक्षस उत्कृष्टत्वात्तत्रैवोपविश्यतामिति भावः । भ्रमात्कृतोऽपराधः क्षन्तुमर्हः । अङ्गेति कोमलामन्त्रणे । 'भ्रमाद्भ्रमात्' इति च पाठः । न न, भ्रमाद्भ्रमाद्, इति च संभ्रमे द्विरुक्तिः[१]

  अधीतपञ्चाशुगबाणवञ्चने स्थिता मदन्तर्बहिरेषि चेदुरः।

  स्मराशुगेभ्यो हृदयं बिभेतु न प्रविश्य तत्त्वन्मयसंपुटे मम ॥११५॥

 अधीतेति ॥ हे कामपीडाया अदर्शनाधीताभ्यस्ता पञ्चाशुगस्य कामस्य बाणवञ्चना यया तत्संबुद्धिः, मदन्तः मन्मनसि स्थिता त्वं बहिर्देशेऽपि उरश्वेदेषि प्राप्नोषि तत् तर्हि कृतमदनबाणवञ्चनायास्तवोभयत्र वर्तमानत्वात्त्वन्मयसंपुटे त्वद्रूपे संपुटे मम हृदयं प्रविश्य स्मराशुगेभ्यो न विभेतु । चिरकालं मनसि स्थितापि हृदयं बहिश्चेदालिङ्गसि तर्हि त्वदालिङ्गनवशान्मम कामज्वरोऽपि शान्तिमुपैष्यतीति भावः[२]

  परिष्वजस्वानवकाशबाणता स्मरस्य लग्ने हृदयद्वयेऽस्तु नौ ।

  दृढा मम त्वत्कुचयोः कठोरयोरुरस्तटीयं परिचारिकोचिता॥११६॥

 परीति ॥ हे भैमि, त्वं मां परिष्वजस्वालिङ्ग । किमिति-नौ आवयोः गाढालिङ्गनवशान्निरन्तरं मिथो लग्ने मिलिते हृदयद्वये वेध्ये स्मरस्य अनवकाशवाणता निरवकाशबाणत्वमस्तु । निबिडसंलग्ने वस्तुद्वये ह्यवकाशलेशोपि न लभ्यत इत्यर्थः । मम दृढातिकठोरा विशाला चयमुरस्तटा वक्षस्तटा कठोरयास्त्वत्कुचयाः पारचाारका सेवाकर्त्री समुचिता। तुल्ययोरेव सेव्यसेवकभावो घटत इत्यर्थः । आलिङ्गनयोग्यत्वमेव सूचितम् । द्वयोरपि यथा कामपीडा न भवति तथा विधेयम् । गाढालिङ्गनं देहीति भावः । परिष्वजस्वेति, 'परिनिविभ्यः-' इति षत्वम् ॥

  तवाधराय स्पृहयामि यन्मधुस्रवैः श्रवःसाक्षिकमाक्षिका गिरः ।

  अधित्यकासु स्तनयोस्तनोतु ते ममेन्दुलेखाभ्युदयाद्भुतं नखः ॥ ११७ ॥

 तवेति ॥ हे भैभि, अहं तव तस्मै अधराय स्पृहयामि त्वदीयमधरमभिलषामि । तव गिरः यन्मधुस्रवैर्यस्याधरस्य मधुनिर्झरैः कृत्वा श्रवसी कर्णौ साक्षिणी यस्य तत् श्रवःसाक्षिकं तादृशं माक्षिकं मधु यासु एवंभूताः सन्ति । ओष्ठस्यामृतरूपत्वात्तदुत्पन्ना वाण्यः, कर्णयोरमृतरूपा भवन्तीत्यर्थः। तथा-मम नखः ते स्तनयोरधित्यकासूर्ध्वदेशेषु इन्दुलेखाया अभ्युदय उदयस्तेन यदद्भुतमाश्चर्यं तत् तनोतु करोतु । नखक्षतस्यार्धत्वाञ्चन्द्रकलाकारत्वाच्च इयमत्र चन्द्रकलोदितेति सख्यादेर्बुद्धिर्भवत्वित्यर्थः ।


  1. अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।