पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९५
'नवमः सर्गः।

 तनोपीति ॥ त्वं मयि मनागपि अल्पमपि मानं चेत्तनोपि करोषि तत्ताह आनतो नम्रः सन् अहं त्वयि बहुमानं महती पूजां मानापनयनार्थं श्रये कुर्वे । 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' इति । हे चण्डि कोपने, रोषवशाद्वक्रं कियत्स्वल्पमेव विनम्य नम्रीकृत्य यदि चेद्वर्तसे, तदा तर्हि ते तव पदावधि चरणपर्यन्तं नमामि दण्डवन्नमस्कारेण रोषशेषमपनेष्यामि । बहुना मानेनाल्पमानं, बहुना नमनेन चाल्पं नमनमपनेष्यामीति भावः । विनम्य विनमय्येत्यन्त र्भावितण्यर्थे द्रष्टव्यम्[१]

  प्रभुत्वभूम्नानुगृहाण वा न वा प्रणाममात्राधिगमेऽपि कः श्रमः ।

  क्व याचतां कल्पलत्तासि मां प्रति क्व दृष्टिदाने तव बद्धमुष्टिता ॥ १०९ ॥

 प्रभुत्वेति ॥ मज्जीवितस्य त्वदधीनत्वान्मां प्रति तव प्रभुत्वसद्भावात्प्रभुत्वस्य प्रभुत्वशक्तेः भूम्ना बहुत्वेनानुगृहाण ममानुग्रहं कुरु, अथवा नानुगृहाण । परं प्रणाममात्राधिगमेऽपि मदीयकेवलप्रणामाङ्गीकारेऽपि तव कः श्रमः प्रयासः। प्रभुः स्वेच्छया सेवकं कदाचिदनुगृह्णाति, कदाचिन्नेति यद्यप्यस्ति तथापि प्रणाममङ्गीकरोति, त्वं तु नेति मया किमपराद्धमिति कथयेति भावः । त्वं याचतां भिक्षुकाणामभिलाषपूरणसमर्थत्वात्कल्पलतासीति क्व, मां प्रति दृष्टिदानेऽप्यवलोकनमात्रेऽपि तव बद्धमुष्टिता कृपणत्वमिति क्व, अपितूभयमेतन्मिथो विरुद्धम् । कटाक्षावलोकनमात्रेण मामनुगहाणेति भा[२]वः॥

  स्मरेषुमाथं सहसे मृदुः कथं हृदि द्रढीयःकुचसंवृते तव ।

  निपत्य वैसारिणकेतनस्य वा ब्रजन्ति बाणा विमुखोत्पतिष्णुताम्

 स्मरेष्विति ॥ हे भैमि, मृदुरतिमृद्वी त्वं स्मरेमाथं कामवाणव्यथां कथं सहसे । कामपीडा सह्येत्यतिमानं त्यजेति भावः । वा पूर्वपक्षापरितोषे । अथ वा वैसारिणकेतनस्य मकरध्वजस्य कामस्य बाणास्तव द्रढीयांसौ कुचौ ताभ्यां संवृते हृदि निपत्य लगित्वा तत्रानिमज्ज्यैव विमुखाश्च ते उत्पतिष्णवश्च तेषां भावस्तत्ता तां पराड्युखोत्पतनशीलत्वं व्रजन्ति । पाषाणादौ बाणो निपत्य तत्रानिमज्यैव पराङ्मुखस्तस्मादुच्छलति, तद्वत्तव कामवाणपीडा न भवतीति युक्तमिति भावः । कृतसंनाहस्य बाणपीडा न भवति । 'मीनो वैसारिणोऽण्डजः' इत्यमरः । 'विसारिणो मत्स्ये' इ[३]त्यण ॥

  स्मितस्य संभावय सृक्कणा कणान्विधेहि लीलाचलमञ्चलं भ्रुवः।

  अपाङ्गरथ्यापथिकीं च हेलया प्र[४]सद्य संधेहि दृशं ममोपरि ॥ १११ ॥

 स्मितस्येति॥ हे भैमि, त्वं सृक्वणा ओष्ठप्रान्तेन स्मितस्येषद्धास्यस्य कणान्लेशान्संभावय धन्यान्कुरु । तथा-ध्रुवोऽञ्चलं प्रान्तं लीलया विलासेन चलं विधेहि । तथा-अ.


  1. 'अत्र छेकानुप्रासविरोधालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र विषमरूपकालंकारः' इति साहित्यविद्याधरी।
  3. 'अत्र विरोधाक्षेपालंकारः' इति साहित्यविद्याधरी
  4. 'प्रसह्य' इति पठित्वा 'बलात्कारेण' इति व्याख्यातं जीवातुसाहित्यविद्याधर्योः