पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
नैषधीयचरिते

  अपास्तपायोरुहि शायितं करे करोषि लीलाकमलं किमाननम् ।

  तनोषि हारं कियदस्रुणः स्रवैरदोषनिर्वासितभूषणे हृदि ॥१०५॥

अपास्तेति ॥ अपास्तं विरहवशात्त्यक्तं पाथोरुट् लीलाकमलं येन एवंविधे करे शायितं चिन्तावशात्स्थापितमाननं लीलाकमलं किमिति करोषि । मुखमेव लीलाकमलस्थाने जातमित्यर्थः । तन्मा कुरु, लीलाकमलं गृहाण, चिन्तां मा कार्षीरिति भावः । तथा-अदोषाणि त्रासादिदोषरहितानि, अथ च विनैव विरहवशानिर्वासितानि भूषणानि मुक्ताहारादीनि येन तादृशे हृदि अस्रुणः स्त्रवैरस्रुबिन्दुभिः कियत्किपरिमाणं कियन्तं कालं च हारं मुक्ताहारं तनोपि । अपि तु मास्म तानीः। अस्रुबिन्दवो हारस्थाने भवन्तीत्यर्थः । तन्मा कुरु, भूषणान्यङ्गीकुरु । रोदनं मा कार्षीरिति भावः । अन्यत्र सापराधो निर्वास्यत इति दृष्टम् । कियत्, क्रियाविशेषणम्[१]

  दृशोरमङ्गल्यमिदं मिलज्जलं करेण तावत्परिमार्जयामि ते ।

  अथापराधं भवदङ्घ्रिपङ्कजवयीरजोभिः सममात्ममौलिना ॥ १०६ ॥

दृशोरिति ॥ हे भैमि, अहं तावत्प्रथमतः करेण कृत्वा ते तव दृशोनॆत्रयोः मिलत्संबद्धं निरन्तरं गलत् इदममङ्गल्यमशुभरूपं जलं बाष्पं परिमार्जयामि । प्रोञ्छामीत्यर्थः। अथ पश्चाद्भवत्या अङ्ग्रिपङ्कजद्वय्याः रजोभिः समं सह आत्ममौलिना स्वमस्तकेन स्वीयमपराधमपि प्रोञ्छामि । मत्कृतादपराधाद्यदि रोदिषि; तर्ह्यमङ्गल्यं रोदनमादावपनेष्यामि पश्चान्मस्तके तव चरणरजो यावल्लगति तावत्तव चरणौ शरणं प्रविश्यापराधमपनेष्यामि । प्रसन्ना भवेति भावः । मङ्गल्यम् , अर्हार्थे यत् । परिमार्जयामि, वर्तमानसामीप्ये ल[२]ट् ॥

  मम त्वदच्छाङ्घ्रिनखामृतद्युतेः किरीटमाणिक्यमयूखमञ्जरी।

  उपासनामस्य करोतु रोहिणी त्यज त्यजाकारणरोषणे रुषम् ॥ १०७ ॥

ममेति ॥ हे भैमि, मम रोहिणी रक्तवर्णा किरीटमाणिक्यमयूखानां मञ्जरीतुल्या दीर्घाकारा दीप्तिरस्य पुरोवर्तिनः तवाङ्घ्रिनखलक्षणस्यामृतातेश्चन्द्रस्योपासनां सेवां करोतु । हे निष्कारणं रुष्यसीत्यकारणरोषणे भौमि, रोषं त्यज त्यज । सदाहं त्वच्चरणसेवकोस्मि । कोपं मुञ्च मुञ्चेति भावः । सौम्यस्य सेवा कर्तुं शक्या, न तु रोषणस्य । चन्द्रप्रिया रोहिणी तारका चन्द्रं सेवते, समीपवर्तिनी च भवतीत्युचितमेव । रोहिणी, 'वर्णादनुदात्तात्-' इति ङीन्वकारौ । त्यज त्यजेति संभ्रमे, 'नित्यवीप्सयोः' इति द्विरुक्तिः। रोषणे 'क्रुधमण्डार्थेभ्यश्च' इति युच्[३]

  तनोषि मानं मयि चेन्मनागपि त्वयि श्रये तद्बहुमानमानतः ।

  विनम्य वक्रं यदि वर्तसे कियन्नमामि ते चण्डि तदा पदावधि ॥


  1. 'अत्रानुप्रासरूपकश्लेषालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र सहोक्तिरूपकतुल्ययोगितालंकारः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासरूपकश्लेषालंकारः' इति साहित्यविद्याधरी।