पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८७
नवमः सर्गः।

 र्धूता कम्पिता पीडितेति यावत् । एवंभूता सती तदा शुचेः रसस्य विप्रलम्भश्चङ्गारस्य सरसी आसीत् । किंभूता-रयाय निरन्तरप्रवृत्तये बद्धादरया कृताभिनिवेशयाश्रुधारया कृत्वा सनालं यत् नीलोत्पलं तद्वत् लीला ययोरेवंभूते लोचने यस्याः सा । अथ च शुचेः ग्रीष्मसंबन्धिनी रसस्योदकस्य सरसी जाता । शुचेर्निर्मलस्य रसस्य जलस्य सरसी जातेति वा । यद्वा पतद्भिः पक्षिभिः हंसादिभिः पुष्पसंबन्धिभिः पुष्पेषु स्थितैर्वा शिलीमुखैभ्रमरैराशुगेन वायुना च धुता । तथा-ग्रीष्मर्तावुदकस्याल्पत्वाद्दृश्यमाननालनीलोत्पला भवति । अथ च शुचेर्निर्मलस्य रसस्य जलस्य ग्रीष्मकालीना सरसी बभूव । अथ च कामबाणपीडितत्वाच्छुचेः शोकस्य रसस्य नदी बभूव । बहु रुरोदेति भावः। नेत्रयोः स्वभावेन च नीलोत्पलतुल्यत्वम् अच्छिन्नाश्रुधाराया नालद्वयतुल्यत्वम् । ग्रीष्मावल्पजलत्वाद्वायुवशाच्चोद्दण्डनीलोत्पला सरसी भवति। 'शुचिः शुद्धऽनुपहते शृङ्गाराषाढयोः स्मृतः । ग्रीष्मे हुतवहे वापि' इति विश्वः। शुचेः शोकस्य इति पक्षे इक् धातुनिर्देशे । रयाय रयेण निर्गन्तुम् 'तुमर्था-' इति चतुर्थी । रयेण आयो निर्गमनं तत्र बद्धादरयेति वा[१]

  अयोद्भ्रमन्ती रुदती गतक्षमा ससंभ्रमा लुप्तरतिः स्खलन्मतिः ।

  व्यधात्प्रियप्राप्तिविघातनिश्चयान्मृदूनि दूना परिदेवितानि सा ॥ ८७ ॥

 अथेति ॥ अथ सा भैमी मृदूनि श्रोतुः करुणोत्पादकानि परिदेवितानि विलापवचनानि व्यधात् । किंभूता-प्रियस्य नलस्य प्राप्तेः विघातस्य मम नलप्राप्तिः सर्वथा न भवित्रीति निश्चयात् दूना दुःखिता तथाउद्भ्रमन्ती उन्मादवती । तथा-रुदती। तथा—गता क्षमा सहनशक्तिर्यस्याः सा । किमपि सोढुमसमर्था क्षणमपि जीवितुमसहा । तथा-ससंभ्रमा अधुना मम जीवनं न स्यात्, दुःखरूपं वा भवेदिति भयसहिता । तथा-लुप्तरतिः गतसुखा । तथा-स्खलन्ती किंकर्तव्यतामूढा मतिर्बुद्धिर्यस्याः सा। विप्रलम्भाख्यशृङ्गाररसस्य पोषकं वचनमुवाचे[२]त्यर्थः ॥

  त्वरस्व पञ्चेषुहुताशनात्मनस्तनुष्व मनस्ममयं यशश्चयम् ।

  विधे परेहाफलभक्षणव्रती पताद्य तृप्यन्नसुभिर्ममाफलैः ॥ ८८ ॥

 त्वरस्वेति ॥ हे अतिसंतापकत्वात्पञ्चेषुहुताशन कामाग्ने, त्वं त्वरस्व सवेगो भव । मां दग्ध्वा मद्भस्ममयम् आत्मनो यशश्चयं कीर्तिसमूहं तनुष्व विस्तारय शीघ्रं मारय । मा स्म पिपीड इति भावः। स्त्रीवधेन तव महद्यशो भविष्यतीति सोपहासम्, हे विधे धातः, परस्य ईहा इच्छा तद्विषये यत् फलमभीष्टं तस्य भक्षणं अन्तरायकरणादनिष्पादनं तदेव व्रतमस्यास्तीति पराभिलाषहनने प्रयत्नशीलस्त्वम् अद्य नलप्राप्तेरभावादफलै- र्व्यर्थैः ममासुभिः तृप्यन्सन् पत (अधो गच्छ । नरकं याहीत्यर्थः । तव परफ़लभक्षणव्रतं न तु प्राणभक्षणव्रतम् एतद्रतलोपेन) पतितो भव । स्त्रीवधजनितात्पातकात्स्वर्गात्पतितो भवेत्याक्रोशः। एतच्चानर्थकत्वात्प्रला[३]परूपम् ॥


  1. 'अत्र भैम्याः शृङ्गारसरसीत्वेन ग्रीष्माम्बुसरसीत्वेन च रूपणाद्रूपकालंकारः । तस्य श्लेषोपमाभ्यामङ्गाभ्यां संकरः स्पष्टः' इति जीवातुः
  2. 'अत्रानुप्रासौलंकारः' इति साहित्यविद्याधरी
  3. 'अत्रातिशयो-क्तिसमासोत्त्यलंकारः' इति साहित्यविद्याधरी