पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
नैषधीयचरिते

 इदमिति ॥ हे दमयन्ति, मया इदं ते तव महत् हितमभिहितमुक्तम् । त्वं मोहं विहाय चिन्तय अनेन हितमुक्तमहितं वेत्यादि विचारय । प्रतीकाराभावं विवृणोति-कः नरः सुरेषु विघ्नैकपरेषु सत्सु करस्थं हस्तस्थितमप्यर्थं वस्तु अवाप्तुं ईश्वरः समर्थो भवेत् । मनुष्येऽपि विघ्नपरेऽन्येन प्रतिकर्तुं न शक्यते, किं पुनर्देवेष्विति त्वं विचारयेत्युत्तराधैन वा योजना । एकशब्दः केवलपर्यायः[१]

  इमा गिरस्तस्य विचिन्त्य चेतसा तथेति संप्रत्ययमाससाद सा।

  निवारितावग्रहनीरनिर्झरे नभोनभस्यत्वमलम्भयद्दृशौ ॥ ८४ ॥

 इमा इति ॥ सा भैमी तस्य नलस्य इमाः पूर्वोक्ता गिरः चेतसा विचिन्त्य तथेति 'सुरेषु विघ्नैकपरेषु' इत्यादि सत्यमेव इति संप्रत्ययं विश्वासमाससाद प्राप । पश्चात् दृशौ नेत्रे नभोनभस्यत्वं वहुलजलत्वाच्छ्रावणभाद्रपदत्वमलम्भयत्प्रापयामास । किंभूते-निवारितो निषिद्धोऽवग्रहो वर्षप्रतिबन्धो यस्यैवंविधोऽप्रतिहतप्रसरो नीरनिर्झरो जलप्रवाहो ययोः । बहु रुरोदेत्यर्थः । श्रावणभाद्रपदयोर्वर्षप्रतिबन्धे जलवृष्टिर्न भवति, तदभावे भवतीत्यनेन बहुरोदनं सूचि[२]तम् ॥

  स्फुटोत्पलाभ्यामलिदंपतीव तद्विलोचनाभ्यां कुचकुङ्मलाशया ।

  निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ [३]विरेजतुः॥८५॥

 स्फुटेति ॥ कज्जलाविलौ कज्जलकलुषितावश्रुबिन्दू कुचकुङमलाशया कुचरूपकलिकाभिलाषेणालिदंपती इव भ्रमरस्त्रीपुंसाविव स्फुटोत्पलाभ्यां विकसितकमलरूपाभ्यां तस्या भैम्या विलोचनाभ्यां सकाशाद्धृदि निपत्य तरलौ स्फुरन्तौ हारमध्यवर्तित्वयोग्यौ नीलौ मणी इव इन्द्रनीलमणी इव विरेजतुः। कज्जलकलुषितत्वाद्वर्तुलत्वात् स्फुटोत्पलनेत्रनिर्गमनात्कुचकोरकौ प्रत्यागमनाच पूर्वं बिन्द्वोरलिस्त्रीपुंसतुल्यत्वम् , हृदिस्थत्वाच्च हारसांनिध्यात्पश्चान्नीलमणितुल्यत्वं युक्तम् । नेत्रयोर्विकसितोत्पलतुल्यत्वं, कुचयोश्च कुड्मलतुल्यत्वं स्वभावसिद्धम् । अलिस्त्रीपुंसौ विकसितं कमलमुपभुज्य विकसिष्यत्कलिकाभिलाषिणौ भवतः। अलितुल्याविन्द्रनीलतुल्यौ चाश्रुबिन्दू हृदि निपतिताविति भावः । 'ईदूदेतू-' इति प्रगृह्यत्वस्य [४]'मणीवादेन' इति [५]निषेधात्संधिः ॥

  धुतापतत्पुष्पशिलीमुखाशुगैः शुचेस्तदासीत्सरसी रसस्य सा।

  रयायबद्धादरयाश्रुधारया सनालनीलोत्पललीललोचना ॥८६॥

 धुतेति ॥ सा भैमी आपतन्तः आगच्छन्तः पुष्पशिलीमुखस्य कामस्याशुगा बाणास्तै-


  1. 'अत्र छेकानुप्रासार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  3. 'विलेसतुः इति जीवातुसंमतः पाठः ।
  4. 'मणी इवोद्भिन्नमनोहरत्विषौ' इति महाकविप्रयोगे प्रकृतिभावदर्शनात् 'कादम्बखण्डितदलानि व पङ्कजानि' इत्यादिप्रयोगेषु इवार्थकवकारदर्शनात् ‘मणी व' इत्यादौ तेन वकारेणैव निर्वाहे अस्य वार्तिकस्योपन्यासो मुधैव ।
  5. 'अत्रोत्प्रेक्षारूपकोपमालंकारः' इति साहित्यविद्याधरी