पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७५
नवमः सर्गः।


 कतम इत्युक्तं तदेवोपन्यस्यति-

  मतः किमैरावतकुम्भकैतवप्रगल्भपीनस्तनदिग्धवस्तव ।

  सहस्रनेत्रान्न पृथग्मते मम त्वदङ्गलक्ष्मीमवगाहितुं क्षमः ॥ ५२ ॥

 मत इति ॥ ऐरावतकुम्भस्थलस्य कैतवेन त्याजेन तत्कुम्भावेव प्रगल्भौ कठिनौ पीनौ मांसलो स्तनौ यस्या दिशः प्राच्या धवः पतिः इन्द्रः तव मत ईप्सितः किम् । प्रायेणैवमेव त्वया विचारितं स्यादित्यर्थः । युक्तं चैतत्-त्वदङ्गलक्ष्मीं त्वच्छरीरशोभामवगाहितुं सामस्त्येनेक्षितुं सहस्रनेत्रादिन्द्रात्पृथक् अन्यो द्विनेत्रः मम मते क्षमो न । नेत्रद्वयेन तव सौन्दर्ये द्रष्टुं न शक्यते इति सहस्रनेत्रत्वादिन्द्र एव तव सौन्दर्यदर्शनयोग्य इति । ममाप्ययमेवाशय इति भावः । तव मतो, मम मत इति 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । सहस्रनेत्रात्, 'पृथग्विना-' इति पञ्चमी[१]

  प्रसीद तस्मै दमयन्ति संततं त्वदङ्गसङ्गप्रभवैर्जगत्प्रभुः ।

  पुलोमजालोचनतीक्ष्णकण्टकैस्तनुं घनामातनुतां स कण्टकैः॥५३॥

 प्रसीदेति ॥ हे दमयन्ति, तस्मै इन्द्राय प्रसीद त्वं प्रसन्ना भव । तं वृण्वित्यर्थः । अनन्तरं स जगत्प्रभुरिन्द्रः त्वदङ्गसङ्गात्प्रभवो येषां तैः कण्टकै रोमाञ्चैः कृत्वा तनुं शरीरं संततं सर्वदा घनां निविडां परिपूर्णामातनुताम् । किंभूतैः-पुलोमजाया इन्द्राण्या लोचनयोरतितरां सोदुमशक्यत्वात् तीक्ष्णकण्टकैरसह्यकण्टकरूपैः सूच्यग्रतुल्यैः क्षुद्रशत्रुरूपैर्वा । त्वया वृते सतीन्द्राणीपरित्यागेन त्वय्येवानुरक्तो भविष्यतीति भावः । सपत्नीसुतान्भर्तुरङ्कगतान्क्रीडतो दृष्ट्वाऽन्यस्या नेत्रयोः कण्टकविद्धवेदना भवतीत्युक्तिः। 'सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः' इत्यमरः । तस्मै 'क्रियया यमभिप्रैति' इति संप्रदानम्[२]

वह्निवरणे कारणमाह-

  अबोधि तत्त्वं दहनेऽनुरज्यसे स्वयं खलु क्षत्रियगोत्रजन्मनः ।

  विना तमोजस्विनमन्यतः कथं मनोरथस्ते वलते विलासिनि॥५४॥

 अबोधीति ॥ त्वं स्वयमप्रवर्तितैव दहनेऽग्नौ अनुरज्यसेऽनुरक्तासीति मया तत्त्वं परमार्थोऽबोधि अज्ञायि । हे विलासिनि, खलु यस्मात्क्षत्रियाणां गोत्रे वंशे जन्म यस्यास्तस्याः ते तव मनोरथः तं ओजस्विनं तेजस्विनं वह्निं विना परिहत्य अन्यतोऽन्यस्मिन्पुरुषे कथं वलते । अपित्वयोग्यत्वान्न यात्येव । तेजो हि तेजस्येवानुरज्यते । त्वं तेजस्विनी, वह्निरपि तेजस्वीति बह्नावनुरक्तासीति युक्तमिति मया ज्ञातमिति भावः । अन्यस्यापि क्षत्रियकुलोत्पन्नस्य मन इव शीघ्रगामी रथः तेजस्विनमन्यं क्षत्रियं विहाय {rule}

  1. 'अत्रापहुतिसमासोत्तयलंकारः' इति साहित्यविद्याधरी । 'अत्रौत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तस्यापहवेन संसृष्टिः' इति जीवातुः
  2. 'अत्रानुप्रासरूपकालंकारः' इति साहित्यविद्याधरी।