पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
नैषधीयचरिते

तवाभिप्रायमजानानेनैव मया 'इन्द्रादीन्वृणीष्व' इत्युक्तम्, त्वया तु 'न' इति वचनभङ्गच्चेक्तम् । इदानीं तवाभिप्रायो ज्ञात इत्याह-

  निषेधवेषो विधिरेष तेथवा तवैव युक्ता खलु वाचि वक्रता।

  विजृम्भितं यस्य किल ध्वनेरिदं विदग्धनारीवदनं तदाकरः॥५०॥

 निषेधेति ॥ अथवा इन्द्रादीन्न वृणे इति एष ते तव निषेधो वेषो रूपं यस्यैतादृशो विधिरेव । न वृणे इति यथाश्रुतार्थग्राहिणा मया पूर्व न शातः, इदानीं वृणे इति विधिरेव ज्ञातः । लौकिकवचनरीतिरप्येवम् । निषेधे विधिप्रतीतिः कथमित्यत आह-खलु यस्मात् तवैव वाचि वक्रता युक्ता । वक्रोक्तिस्त्वद्वचनविषयैव युक्तेत्यर्थः। एतदपि कुत इत्याशङ्क्याह-खलु यस्मात् यस्य ध्वनेः ध्वनिसंज्ञकस्योत्तमकाव्यस्य इदं निषेधविधिरूपं किल प्रसिद्धं विजृम्भितं विलसितम् , तस्य आकरः खनिः उत्पत्तिस्थानं विदग्धनारीवदनं चतुरवनितामुखम् । वक्रोक्त्यादिध्वनिविलसितं वक्तुं विदग्धा नार्येव जानाति, न त्वन्या । त्वादृशी वक्रोक्त्यादि वक्तुं चतुरा ना(अ)स्तीत्यर्थः। 'इदमुत्तममतिशयिनि व्यङ्गये वाच्याध्द्वनिर्वुधैः कथितः' इति काव्यप्रकाशः । 'विस्पष्टं क्रियमाणादक्लिष्टा स्वरविशेषतो भवति । अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥' इति । 'वापी स्नातुमितो गतासि न पुनस्तस्य [१]प्रियस्यान्तिकम्' इत्यत्र स्नाननिषेधे स्नानविधिः, प्रियोपसरणविधौ तनिषेध इति । तथा-'प्राणेश विज्ञप्तिरियं मदीया तत्रैव नेया दिवसाः कियन्तः । संप्रत्ययोग्यस्थितिरेष देशः कला यदिन्दोरपि तापयन्ति ॥' इति । तत्रैव दिवसा नेयाः, नात्रागन्तव्यमिति निषेधो व्यज्यते । स निषेधोऽपि भङ्ग्या आगमनविधिरेव। यतस्तया आत्मनो भर्तृविरहासहत्वं भङ्ग्या सूचितमिति निषेधवेषो विधिर्ज्ञातव्यः। अन्यदपि ग्रन्थान्तराज्ज्ञातव्यं सुधिया[२]

  भ्रमामि ते भैमि सरस्वतीरसप्रवाहचक्रेषु निपत्य कत्यदः ।

  त्रपामपाकृत्य मनाक्कुरु स्फुटं कृतार्थनीयः कतमः सुरोत्तमः॥५१॥

 भ्रमामीति ॥ हे भैमि, अहं ते तव सरस्वत्या रसो माधुर्ये तत्संबन्धिषु वक्रोक्त्यादिरूपप्रवाहचक्रेषु समूहेषु। आवर्तेष्वित्यर्थः । निपत्य कति कियन्तं कालं कति वारान् वा भ्रमामि भ्रान्तो भवामि । निषेधरूपेणोच्यते विधिरूपेण वेति निश्चयाभावात्कियत्कालं मया भ्रमितव्यमित्यर्थः । अन्योपि नदीजलप्रवाहावर्तेषु बहुवारं बहुकालं वा भ्राम्यति । कुलालचक्रनिपतितो घटादिर्वा । त्रपां लज्जां मनाक् ईषदपाकृत्य इन्द्रादिषु मध्ये कतमः सुरोत्तमः स्वयंवरेण त्वया कृतार्थनीयः । इन्द्रः, अग्निः, यमः, वरुणो वेति अद एतत्स्फुटं कुरु । नामग्राहमेकं वृण इति कथयेत्यर्थः । मनाक् प्रकटं कुर्विति वा । कति, 'कालाध्वनोः' इति कालवाचित्वेऽत्यन्तसंयोगे द्वितीयाबहुवचनान्तम् । सुरोत्तमः पुरुषोत्तमवत् । दिक्पतित्वाञ्चतुर्णामपि सुरोत्तमत्वम् । भैमीवरणाभिप्राय वा[३]


  1. काव्यप्रकाशे सुखावबोधायां साहित्यविद्याधर्यौ च 'वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्' इत्येव पाठ उपलभ्यते ।
  2. 'अत्र हेत्वाक्षेपालंकारः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासश्लेषालंकारः' इति साहित्यविद्याधरी