पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
नैषधायचारत

  दिवौकसं कामयते न मानवी नवीनमश्रावि तवाननादिदम् ।

  कथं न वा दुर्ग्रहदोष एष ते हितेन सम्यग्गुरुणाऽपि शम्यते॥४१॥

 दिवौकसमिति ॥ मानवी दिवौकसं न कामयते इतीदं नवीनमपूर्वं तवाननादश्रावि श्रुतम् । उत्तमस्य वस्तुनोऽनभिलाषाचित्रमित्यर्थः । एष ते दुर्ग्रहदोषः दुष्टाग्रहलक्षणो दोषः सम्यगतितरां हितेनाप्तेन गुरुणा पित्रापि कथं वा न शम्यते नापनीयते । अपित्वपनेतुमर्हः । अपत्यहितमभिलष्यता पित्रा ह्यपत्यदुष्टाग्रहः केनाप्युपायेन निराक्रियते। तव तु नेत्यपि चित्रमित्यर्थः । अथ च-दुष्टग्रहाः शनैश्चरादयः, तज्जनितो दोषः पीडा सम्यक् हितेन केन्द्रस्थानस्थितत्वादनुकूलतरेण गुरुणा बृहस्पतिनापनीयते । नापनी- यते चेच्चित्रम् । 'किं कुर्वन्ति ग्रहाः सर्वे यदि केन्द्रे बृहस्पतिः' इति ज्योतिर्विदः। सर्वथा आग्रहं परित्यज्येन्द्रादिष्वन्यतमं वृणीष्वेति भावः । अथ च त्वद्वरणसंबन्धी देवानामाग्रहो मन्त्रिणा बृहस्पतिना कथं न शम्यते इति चित्रम् । दिवौकसमिति पृषोदरादिः । आङ् प्रश्लेषे वृद्धिर्वा । नवीनम् 'नवस्य नूत्नप्तनपूखाश्च' इति खो नूरादेशः[१]

  अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकमेति दिव्यताम् ।

  अयोविकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि॥४२॥

 अन्विति ॥ नरः दिवौकसामनुग्रहादेव अनुग्रहमात्रेण मानुष्यकं मनुष्यत्वं निरस्य परित्यज्य दिव्यतां देवत्वमेति प्राप्नोति । तत्र दृष्टान्तः-सिद्धरसस्पृशामपि औषधसाधितपारदस्पृशां सुवर्णभूतानामप्ययसां लोहानामयोविकारे लोहविकारभूते पदार्थै मध्ये स्वरितत्वमाक्षिप्तत्वं कुतो हेतोरिष्यते अपि तु न कुतोऽपि । सिद्धरसस्पृष्टानि सुवर्णभूतानि लोहानि अयोविकृतिषु मध्ये केन क्षिप्यन्ते एतानि लोहजन्यानीति लोहपातीनि केन क्रियन्ते । किंतु सुवर्णमध्य एवेत्यर्थः । 'अयोधिकारे स्वरितत्वम्' इति पाठे अधिकारे प्रस्तावे। 'स्वरितेनाधिकारः' इति पाणिनिवचनात्स्वरितत्वाभावे कुतस्त्योऽधिकार इत्यर्थः । यथा सिद्धरसस्पृष्टं लोहं सुवर्णत्वेन वर्ण्यते, न तु लोहत्वेन । तथा देवानुग्रहात्त्वमपि देव्येव, न तु मानुषीति देवान्वृणीष्वेति भावः। स्वरित इति 'स्वर आक्षेपे' इति चौरादिकाददन्तानिष्ठा । रसशब्दो विश्वप्रकाशे पारवाच्युक्तः। स्पृशाम् 'स्पृशोऽनुदके-' इति क्विन् । अनेन 'मानुष्यकलाग्छने जने' इत्यादेरुत्तरं दत्तमं[२]

  हरिं परित्यज्य नलाभिलाषुका न लज्जसे वा विदुषिब्रुवा कथम् ।

  उपेक्षितेक्षोः करभाच्छमीरतादुरुं वदे त्वां करभोरु भोरिति ॥४३॥


  1. 'अत्र छेकानुप्रासहेतुकश्लेषालंकारः' इति साहित्यविद्याधरी । 'अत्राभिधायाः प्रकृतार्थनियन्त्रणादप्रकृतार्थप्रतीतिध्वनिरेव, न श्लेषः' इति जीवातुः।
  2. 'अत्रार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी । 'दृष्टान्तालंकारः स्पष्टः' इति जीवातुः।