पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
नैषधीयचरिते

  अदो निगद्यैव नतास्यया तया श्रुतौ लगिवाभिहितालिरालपत्।

  प्रविश्य यन्मे हृदयं ह्रियाह तद्विनिर्यदाकर्णय मन्मुखाध्वना॥३०॥

 अद इति ॥ आलिः काचित्सखी आलपदवोचत् । किंभूता-अदो निगद्यैव एवमुक्त्वैव नतास्यया लज्जावशान्नम्रमुख्या तया भैम्या श्रुतौ लगित्वाभिहिता एवं वद इति उक्ता । हे दूत इयं ह्रिया मे हृदयं प्रविश्य यदाह ब्रवीति, तत् त्वं मन्मुखाध्वना विनियद्विनिर्गच्छद् आकर्णय । इयं लजया किमपि स्वयं वक्तुं न शक्नोति, मन्मनसि रहस्यं निवेश्य यदाह, तन्मयानूद्यते, न तु स्वस्फूर्त्या किमप्युच्यते तदाकर्णयेत्य[१]र्थः ॥

  बिभेमि चिन्तामपि कर्तुमीदृशीं चिराय चित्तार्पितनैषधेश्वरा।

  मृणालतन्तुच्छिदुरा सतीस्थितिर्लवादपि त्रुट्यति चापलात्किल ॥ ३१ ॥

 बिभेमीति ॥ यतः अहं चिराय बहुकालं चित्तेर्पितो धृतो नैषधेश्वरो यया अत एव ईदृशीं इन्द्रादीन्वृणे, न वृणे इति चिन्तामपि विचारमपि कर्तुं बिभेमि भयं प्राप्नोमि निश्चयं कर्तुं किमुत । मनोव्यापारेऽपि भयम् , किं पुनः कायव्यापारे इत्यपिशब्दार्थः विचारो हि मानसो व्यापारः। मनसश्च नलेनाधिष्ठितत्वादन्यविषयविचारस्यावकाशोऽपि नास्ति । ईदृशे विचारे क्रियमाणे तत्स्थो नलः समाकर्णयेत् । स चेश्वरः प्रभुः। तस्मादेवं विचारयितुमपि बिभेमीत्यर्थः । मनसा नलस्य वृतत्वान्नान्यवरणकथामपि कर्तुं शक्नोमीति भावः । मनसैव वृतो न तु साक्षात् । तस्मादन्यवरणविषयविचारे क्रियमाणे किमिति भयमित्याशङ्कयाह-किल यस्मात् मृणालतन्तुवच्छिदुरा स्वयमेव भिदुरा सतीस्थितिः पतिव्रतामर्यादा लवादप्यल्पादपि चापलात्त्रुट्यति । बिसतन्तुर्यथा हस्तस्पर्शमात्राच्छिद्यते तथा। साक्षाद्वरणादपि मनसा यद्वरणं तस्यैव ज्यायस्त्वादन्यविषयकथयापि सतीस्थितिर्भज्यते । तस्माद्भयं युक्तमेवेति भावः[२]

  ममाशयः स्वप्नदशाज्ञयापि वा नलं विलङ्घ येतरमस्पृशद्यदि ।

  कुतः पुनस्तत्र समस्तसाक्षिणी निजैव बुद्धिर्विबुधैर्न पृच्छयते ॥ ३२ ॥

 ममेति ॥ वाशब्दो यदीत्यस्यानन्तरं संभावनार्थो द्रष्टव्यः । ममाशयोऽभिप्रायः स्वप्नदशायाः स्वप्नावस्थाया आज्ञयापि वशेनेत्यर्थः । अज्ञा इव अज्ञा, तत्कृतो मोहस्तेनापीति वा नलं विलङ्घयेतरं यदि वास्पृशत् , तर्हि विबुधैरिन्द्रादिभिः पण्डितैश्च तत्र तस्मिन्विषये समस्तसाक्षिणी समस्तलोकवृत्तसाक्षात्कारिणी निजैव बुद्धिः कुतः पुनः न पृच्छयते । स्वप्नदशायामपि नलादन्यं न चिन्तयामीति सर्वज्ञत्वाद्देवा अपि जानन्तीति भावः[३] ॥॥


  1. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र हेतूपमालंकारः' इति साहित्यविद्याधरी
  3. 'अत्र छेकानुप्रासहेत्वलंकारः' इति साहित्यविद्याधरी