नाम्नस्त्वत्यन्तमकथनीयत्वमाह-
महाजनाचारपरम्परेदृशी स्वनाम नामाददते न साधवः ।
अतोभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति॥१३॥
महेति ॥ नाम प्रसिद्धौ।यत् साधवः स्वनाम न आददते न कथयन्ति ईदृशी महाज- नानामाचारपरम्परा यतः, अतः कारणात्स्वनामाभिधातुं वक्तुं नोत्सहे नेच्छामि । कुलं कथितं, नाम न कथनीयमित्यर्थः । अत्र हेतुः-किल यस्मात् जन आचारमुचं पु- रुषं पुनः विगायति निन्दति । अतो न कथ्यते इत्यर्थः। 'आत्मनाम गुरोर्नाम नामातिकृ- पणस्य च।आयुष्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः॥' इति सदाचारो मूलम् । आददते 'आङो दोऽनास्यविहरणे' इति त[१]ङ् ॥
अदोऽयमालप्य शिखीव शारदो बभूव तूष्णीमहितापकारकः ।
अथास्यरागस्य दधा पदेपदे वचांसि हंसीव विदर्भजाददे ॥१४॥
अद इति ॥ अयं नलः अदः पूर्वोक्तं वचनमालप्योक्त्वा तूष्णीं बभूव । किंभूतः- शारदो निपुणः हिंसाप्रदो वा । अत एव-अहिताः शत्रवस्तेषामपकारकः । क इव- शारदः शरत्संबन्धी शिखीव मयूर इव, यथा-अहीनां सर्पाणां तापं करोति एवंभूतो मयूरः प्रावृषि रुतं कृत्वा शरदि मूकीभवति । अथानन्तरं च आस्यरागस्य मुखलौहि- त्यस्य पदेपदे प्रतिचरणं दधा धारयित्री हंसीव विदर्भजा वचांस्याददे । उवाचेत्यर्थः । किंभूता इयम्-अस्य नलस्य पदेपदे सुप्तिङन्तरूपे रागस्य मधुरत्वादनुरागस्य दधा धारयित्री । आस्यस्येव रागः, तस्य दधा वा हंसी । प्रावृषि मयूरो मधुरस्वरः, शरदि हंसी मधुरस्वरा आस्ये चञ्च्वोश्चरणयोश्च लोहिता भवति । दधेति 'ददातिदधात्यो- र्विभाषा' इति शः।रागस्य कर्मणि षष्ठी[२]॥
सुधांशुवंशाभरणं भवानिति श्रुतेऽपि नापैति विशेषसंशयः ।
कियत्सु मौनं वितता कियत्सु वाग्महत्यहो वञ्चनचातुरी तव॥१५॥
सुधेति ॥ भवान् हिमांशुवंशस्याभरणमिति श्रुतेऽपि नलो वान्यो वा कश्चनेति विशे- षविषयः संशयो नापैति न गच्छति । तस्मान्नामापि वदेत्यर्थः । कियत्सु द्वित्रेषु नामा- दिप्रश्नेषु मौनं प्रत्युत्तरादानं, कियत्सु किमर्थमागतोसीत्यादिषु प्रश्नेषु वाक् वितता अप्रस्तुतबहुदेवसंदेशकथनरूपा अहो आश्चर्यकारिणी महती तव वञ्चनचातुरी। ईदृशः प्रतारको न दृष्टचर इति भावः । वंशे च मुक्तारूपमाभरणं भव[३]ति ॥
त्वया नाम्न्यकथिते सति मयापि प्रत्युत्तरं न दातव्यमित्याह-
मयापि देयं प्रतिवाचिकं न ते स्वनाम मत्कर्णसुधामकुर्वते ।
परेण पुंसा हि ममापि संकथा कुलाबलाचारसहासनासहा॥१६॥