पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५९
नवमः सर्गः।

 नामाकथने हेतुमुक्त्वा कुलाकथने हेतुमाह-

  यदि स्वभावान्मम नोज्ज्वलं कुलं ततस्तदुद्भावनमौचिती कुतः ।

  अथावदातं तदहो विडम्बना तथा कथा प्रेष्यतयोपसेदुषः ॥१०॥

 यदीति ॥ मम कुलं स्वभावाद्यदि उज्वलं निर्मलं न ततस्तर्हि सदोषस्य तस्य कुल- स्योद्भावनं कथनं मम कुतः कथमौचिती, अपितु तादृशस्य कथनमयुक्तमित्यर्थः । अथ अवदातं तत्कुलं तत्तर्हि प्रेष्यतया परदूतत्वेनोपसेदुष आगतस्य मम तथा तादृशी कथा तादृक्प्रसिद्धनिर्दोषवंशकथा सा विडम्बना, अहो आश्चर्यम् । महानुपहास इत्यर्थः । उपहासभिया तत्कथनं प्रेष्यस्य ममानुचितमित्यर्थः । अवदातम् 'दैप् शोधने' । उप- सेदुषः 'भाषायां सद-' इति क्क[१]सुः॥

 उपसहरात-

  इति प्रतीत्यैव मयावधीरिते तवापि निर्बन्धरसो न शोभते ।

  हरित्पतीनां प्रतिवाचिकं प्रति श्रमो गिरां ते घटते हि संप्रति ॥ ११ ॥

 इतीति ॥ इति पूर्वोक्तप्रकारेण वैयर्थ्येनानौचित्येन च हेतुना प्रतीत्यैव विचार्यैव म- यावधीरिते कुलनामप्रश्नरूपेऽर्थे तवापि निर्बन्ध आग्रहे रसः प्रीतिः न शोभते न युक्ते- त्यर्थः । तर्हि किम्-हि यस्मात्संप्रति इदानीं हरित्पतीनामिन्द्रादीनां प्रतिवाचिकं प्रत्युत्तरं प्रत्युद्दिश्य ते तव गिरां श्रमः प्रयासो घटते । युक्त इत्यर्थः । निरर्थककुलनाम- प्रश्ने आग्रहं त्यक्त्वा शीघ्रं दिक्पालानां प्रत्युत्तरं देहीति भा[२]वः ॥

  तथापि निर्बध्नति तेऽथवा स्पृहामिहानुरुन्धे मितया न किं गिरा।

  हिमांशुवंशस्य करीरमेव मां निशम्य किं नासि फलेग्रहिग्रहा ॥ १२ ॥

 तथेति ॥ अथवा हे तथापि कुलनामाकथनकारणे कथितेऽपि एतत्कथनविषये निर्ब- ध्नति आग्रहशीले भैमि, अहं इह कुलनामप्रश्ने तव स्पृहामिच्छां मितया गिरा स्वल्पेन वचनेन किं नानुरुन्धे नावृणोमि, अपि तु पूरयामि । द्वयोर्मध्य एकेनाग्रहः परित्याज्यः, त्वया तु न परित्यज्यते, ततो मयैव त्यज्यते इति अथवेत्यनेन सूचितम् । मितमाह-त्वं हिमांशुवंशस्य चन्द्रवंशस्य करीरं बालमेव मां निशम्याकर्ण्य फलं गृह्णातीति फलेग्रहिः फलितः ग्रहो निर्बन्धो यस्याः सा एवंभूता किं नासि न भवसि, अपितु फलितनिर्बन्धा भव । निशम्यैवेति वा योजना । चन्द्रवंशे बहवो विख्याताः तन्मध्येऽहं प्रसिद्धो न भ- वामीति करीरपदेन स्वं गोपायति । 'फलेग्रहिरात्मभरिश्च'इति साधुः । 'स्यादवन्ध्यः फलेग्रहिः' इ[३]त्यमरः॥


  1. अत्र हेतुरलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी
  3. ' अत्र छेकानुप्रासरूपकालंकारः' इति साहित्यविद्याधरी