पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
प्रथमः सर्गः।

तस्य वयःसंधिमाह-

जगज्जयं तेन च कोशमक्षयं प्रणीतवाञ्शैशवशेषवानयम् ।
सखा रतीशस्य ऋतुर्यथा वनं वपुस्तथालिङ्गदथास्य यौवनम् ॥१९॥

 जगदिति ॥ अयं नलः शैशवशेषवाञ्शैशवस्य शेषो विद्यते यस्यैवंभूतः षोडशाब्ददेशीयो जगतः समग्रस्य भूमण्डलस्य जयं विजयं प्रणीतवान्कृतवान् । तेन च विजयेन कोशं भाण्डारगृहमक्षयं परिपूर्ण कृतवान् । तेन चेति पदेनानुषङ्गिकत्वं लक्षणया द्योत्यते । दानशूरस्य तस्य पूर्वमेवोक्तत्वाद्भाण्डारगृहस्याक्षयत्वमानुषङ्गिकं , न तु मुख्यमिति भावः । अव्ययाभावत्वेन राजनीतिश्च । एतेन शत्रुराहित्यं सूचितम् । दमयन्तीलाभस्त्ववंशिष्यते । अथ जगज्जयानन्तरं यौवनं तारुण्यमस्य वपुः शरीरं तथालिङ्गत् । अयं यौवनं प्रापेत्यर्थः । शरीरं कर्तृ यौवनं कर्मीभूतं प्रापेति वा। अनेन नलवपुषैव यौवनमलंकृतं न तु तत्तेन । यथा रतीशस्य कामस्य सखा मित्रमृतुर्वसन्तो वनमाश्लिष्यति, यथा स्वत एव रमणीयं वनं वसन्त उद्दीपयति तथा यौवनं कर्तृ श्रीरं कर्म उद्दीपयति स्म । शरीरमपि सौन्दर्यात्कामस्य मित्रम् । रतीशस्य ऋतुरित्यत्र 'ऋत्यकः' इति प्रकृतिभावः

शरीरवर्णनमेव प्रक्रमते-

अधारि पद्मेषु तदङिघ्रणा क तच्छयच्छायलवोऽपि पल्लवे ।
तदास्य दास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः२०

 अधारीति ॥ तदङिघ्रणा तञ्चरणेन पद्मेषु कमलेषु घृणा जुगुप्सा दया वाधार्यकारि। पदो नलचरणात्, नलचरणस्य वा मा येषाम् , सामुद्रिकलक्षणत्वेन पदि मान्तीति वा। मच्छोभालाभेन यानि सलक्ष्मीकानि मामाश्रित्यैव यानि वर्तन्ते तैः सह स्पर्धा मया कथं कार्या । क्रमेण स्वतो निःशोभत्वाज्जुगुप्सा, आश्रितत्वाच्च करुणा । पद्मात्तच्चरणशोभाधिकेत्यर्थः । पल्लवे प्रवाले तच्छयच्छायलवोऽपि तस्य नलस्य शयो हस्तस्तस्य च्छाया कान्तिस्तच्छयच्छायं तस्य लवो लेशोऽपि क्क । कुतः-यतः पदो लवः पल्लवः शरीरनिकृष्टावयवचरणशोभालेशो यत्र वर्तते तत्र शरीरोत्कृष्टावयवपाणिशोभालेशोऽपि कथम् । हीनेन सह साम्यायोगादित्यर्थः । एतेन पल्लवात्तत्करशोभाधिकेत्यर्थः । किंच शारदः शरदि भवो निर्मलः पार्विकः पर्वणि पूर्णिमायां भवः संपूर्णकलः शर्वरीश्वरो निशानाथश्चन्द्रस्तस्य नलस्यास्यं मुखं तस्य दास्येऽपि सेवकत्वेऽप्यधिकारितां पात्रत्वं न गतो न प्राप्तः, किमुत तत्साम्यम् । चन्द्रस्य शरत्पूर्णिमासंयोगाद्रमणीयत्वम् , आस्यस्य तु स्वत एव । शारदत्वादधृष्टत्वादने स्थातुमशक्यत्वात्साम्यं न लेभे इति वा । रमणीयनायकस्य रमणीयेनैव दासेन भाव्यम् । न चास्य पूर्वोक्तप्रकारेण तुल्यत्वम् । अतो दासत्वमपि न प्रापेति भावः । निर्मलत्वा-


१ 'कोशस्याक्षयत्वमपरिमितत्वेनैव, न तु कृपणभावेनेति' सुखावबोधा । २ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी।