पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५७
नवमः सर्गः।

  गिरः श्रुता एव तव श्रवःसुधाः श्लथा [१] भवन्नाम्नि तु न श्रुतिस्पृहा ।

  पिपासुता शान्तिमुपैति वारिजा न जातु दुग्धान्मधुनोधिकादपि ॥ ५ ॥

 गिर इति ॥ अतिमधुरत्वात् श्रवसोः कर्णयोः सुधा अमृतरूपास्तव गिरः श्रुता एव यद्यपि श्रुतास्तथापि तु पुनः तव नाम्नि विषये श्रुतिस्पृहा श्रवणेच्छा न श्लथा शान्ता नाभूत् । अतस्तदपि कथयेति भावः । अतिमधुरवाणीसमाकर्णनेन कथं शान्तेत्याश- ङ्कायां हेतुमाह-वारिजा उदकसंबन्धिनी पिपासुता पानेच्छा अधिकादुदकापेक्षयाऽति- मधुराद्दुग्धान्मधुनोपि जातु कदाचिदपि शान्तिं नोपैतीत्याभाणकः । तस्माद्युक्तमे- तदित्यर्थः । अधिकादपि जलापेक्षया बहुपीतादपि दुग्धान्मधुनो वेति वा । दुग्धापे- क्षयाऽधिकान्मधुनोपीति वा । दुग्धान्न शाम्यति, नापि मधुनः, अधिकादप्यमृता- दपि न शाम्यतीति वा । दुग्धमधुभ्यामधिकादमृतादपि न शाम्यति । अति बहु किं वक्त[२]व्यम् ॥

  बिभर्ति वंशः कतमस्तमोपहं भवादृशं नायकरलमीदृशम् ।

  तमन्यसामान्यधियावमानितं त्वया महान्तं बहु मन्तुमुत्सहे ॥६॥

 बिभर्तीति ॥ सूर्यादिवंशमध्ये कतमो वंशः भवादशमीदृशं हस्ताद्यभिनयमात्रेण वर्णयितुं शक्यं न त्ववयववत्, तम ईश्वरगुणः तद्पहन्ति तिरस्करोति क्रोधरहितम- ज्ञानविनाशिनं, शोकापनुदं वा, नायकरत्नं बिभर्ति । यस्मिस्त्वमुत्पन्नः स कतमो वंश इति प्रश्नः। अन्यसामान्यधियान्यवंशतुल्यत्वबुद्ध्यावमानितं तिरस्कृतमेवंगुणविशिष्टेन त्वया कृत्वा महान्तमत्युत्तमं तं वंशं वहु अतितरां मन्तुं संमानयितुमुत्सहे उत्साहव- त्यस्मि । अनन्यतुल्यत्वेन पूजयितुमिच्छामि । वंशं कथयेति भावः । अथ च-स्वते- जसा तमःस्तोमनिराकरणसमर्थं लोकोत्तरं हारमध्ययोग्यं रत्नं (यो) वंशो धारयति तं वंशमन्यतुल्यत्वबुद्ध्या प्रथमं तिरस्करोति, पश्चात्तद्रत्नं दृष्ट्वा तस्य वेणोर्भूयान्मानः क्रियते तद्वत् । वेणोरपि रत्नोत्पत्तिवृद्धैरुक्ता । 'तमोऽन्धकारे स्वर्भानौ तमः शोके गु- णान्तरे', 'नायको नेतरि श्रेष्टे हारमध्यमणावपि' इति विश्वः । 'रत्नं स्वजातिश्रेष्ठेपि' इत्यमरः । तमोपहम् , 'अपे क्लेशतमसोः' इति डः[३]

  इतीरयित्वा विरतां स तां पुनर्गिरानुजग्राहतरां नराधिपः ।

  विरुत्य विश्रान्तवतीं तपात्यये घनाघनश्चातकमण्डलीमिव ॥७॥

 इतीति ॥ स नराधिपो नलः इति पूर्वोक्तमीरयित्वोक्त्वा विरतां विश्रान्तां तां भैमीं गिरा वाचा पुनरनुजग्राहतरामतितरामनुगृहीतवान् । उवाचेत्यर्थः । तां प्रति तस्य वंशकथनवचनमेवानुग्रहः। कः कामिव-तपात्यये ग्रीष्मान्ते प्रावृषि घनाघनो वर्षुको


  1. भवतो नाम्नि भवन्नाम्नीति केषांचिद्व्याख्यानं 'तव' इति प्रकृतत्वात्क्रियाध्याहारप्रसङ्गादपि नातिरमणीयम्' इति सुखावबोधासंमतस्तु 'अभवत्' इति च्छेदः ।
  2. 'अत्र रूपकार्थान्तरन्यासोलंकारः' इति साहित्याविद्याधरी । 'दृष्टान्तालंकारः' इति जीवातुः।
  3. 'अत्र श्लेषालंकारः इति साहित्यविद्याधरी