पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
नैपधीयचरित

नलतुल्यदूतस्योक्तिमात्रस्य केवलोक्तस्य श्रवणेच्छयाकर्णनेच्छयाशृणोत्, न गौरवात् । इन्द्रादीनामाज्ञा श्रोतव्येत्यादरान्न श्रुतवती । किंभूता-अक्षिभ्रुवस्य विभ्रमः परिस्प- न्दविलासः, तल्लक्षणेनेङ्गितेन स्वाभिप्रायसूचकचेष्टितेन स्फुटामनिच्छां दिक्पालानाम- नादरं विवरीतुं विशेषेण प्रकटीकर्तुमुत्सुकोत्कण्ठिता । अक्षिणी च भ्रुवौ च 'अचतुर--’ इति साधुः[१]

  तदर्पितामश्रुतवद्विधाय तां दिगीशसंदेशमयीं सरस्वतीम् ।

  इदं तमुर्वीतलशीतलद्युतिं जगाद वैदर्भनरेन्द्रनन्दिनी ॥ २ ॥

 तदिति ॥ वैदर्भनरेन्द्रनन्दिनी भैमी उर्वीतले भूतल आह्लादकत्वाच्छीतलद्युतिं चन्द्रं तं नलं इदं वक्ष्यमाणं जगाद । किं कृत्वा-तेन दूतेनार्पितामुक्तां तां दिगीशसंदेशमयीं दिक्पालवाचिकवहुलां सरस्वतीं वाणीमनादरात्प्रत्युत्तराभावात् अश्रुतवदश्रुतेन तुल्यं वर्तते अनाकर्णितामिव विधाय । प्रत्युत्तरमदत्त्वा स्वमनीषितमुक्तवतीत्य[२]र्थः ॥

  मयाङ्ग पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान।

  न मह्यमत्रोत्तरधारयस्य किं ह्रियेपि सेयं भवतोऽधमर्णता ॥३॥

 मयेति ॥ अङ्ग दूत, मया भवान् कुलनामनी पृष्टः सन् अमू कुलनामनी विमुच्यान्य- देव दिगीशसंदेशाद्यप्रस्तुतमेव किमुक्तवान् । अयुक्तमेतदित्यर्थः । अत्र कुलनामप्रश्न- विषये मह्यमुत्तरधारयस्य प्रत्युत्तरलग्नकस्य भवतोपि सेयं प्रस्तुताधमर्णता ह्रिये न किम् । प्रश्नोत्तरमददतः परमन्यस्यापि ह्रीर्भवति, उत्तमस्य तव कथं नेति । तस्मात्कुल- नामनी कथयेति भावः । ऋणापाकरणे समर्थोऽन्योऽपि तदनपाकरणाल्लज्जापदं भ- वति । निषेधमात्रवाचिनो नकारस्य प्रथमान्तत्वमेव च युक्तमिति 'सपूर्वायाः प्रथ- माया विभाषा' इति वैकल्पिकत्वान्मयादेशाभावः । धारयतीति धारयः 'अनुपसर्गा- ल्लिम्पविन्द-' इति शः। 'उत्तरस्य धारयः' इति समासः[३]

  अदृश्यमाना क्वचिदीक्षिता क्वचिन्ममानुयोगे भवतः सरस्वती।

  क्वचित्प्रकाशां क्वचिदस्फुटार्णसं सरस्वतीं जेतुमनाः सरस्वतीम ॥ ४ ॥

 अदृश्येति ॥ भवतः सरस्वती वाणी सरस्वतीं नाम्ना सरस्वती नदी जेतुमनाः । त- त्तुल्या भवतीत्यर्थः । किंभूतां सरस्वतीम्-क्वचिद्देशविशेषे प्रकाशां प्रकटजलाम्, क्व- चिच्चास्फुटमप्रकटं अर्ण उदकं यस्यास्ताम् । किंभूता तव सरस्वती-क्वचित्कुलना- मविषये ममानुयोगे प्रश्ने उत्तरादानादृश्यमाना गुप्ता, क्वचित् कुत आगतोसीति मम प्रश्ने ईक्षिता उत्तरदानात्प्रकटा । कुलनामप्रश्नस्याप्युत्तरं प्रयच्छेति भावः। 'सरस्वती नदीभेदे गोवाग्देवतयोरपि' इति विश्वः[४]


  1. 'अत्रातिशयोक्तिभावोदयकाव्यलिङ्गालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्रोपमानरूपमलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।
  4. 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी । 'अत्र नलवाचः सरस्वतीनदीधर्मसंबन्धाज्जिगीषोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या, तया चोपमा व्यज्यते इत्यलंकारेणालंकारध्वनिः' इति जीवातुः।