आनन्दयेन्द्रमथ मन्मथमग्नमग्निं
कलाभिरुद्धर तनूदरि नूतनाभिः
आसादयोदितदयं शमने मनो वा
नो वा यदीत्थमथ तद्वरुणं वृणीथाः ॥ १०८ ॥
आनन्दयेति ॥ हे तनूदरि भैमि, त्वं वरणेनेन्द्रमानन्दय । अथवा नूतनाभिर्नवन- वाभिः केलीभिः सुरतक्रीडाभिः मन्मथमग्नं मदनजनितपीडामग्नमग्निं कामपीडायाः सकाशादुद्धर पृथक्कुरु। प्रवाहादिमग्नमन्यदपि नूतनकलश्यादिभिरुद्ध्रियते । वा अथवा शमने यमे मनः उदिता दया यस्यैवंविधं सकृपमासादय कुरु । वा अथवा यदि इत्थम् एवं नो इन्द्रादिवरणं न क्रियते अथ तर्हि वरुणं वृणीथाः वृणीष्व । चतुर्णां मध्ये यस्य कस्यापि वरणान्मम दूत्यं सफलयेति भावः ॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
’श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
तस्यागादयमष्टमः कविकुलादृष्टाध्वपान्थे महा-
’काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः॥८॥
श्रीहर्षमिति ॥ किंभूते महाकाव्य-कविकुलेन कालिदासादिमहाकविसमूहेन अ- दृष्टोऽध्वा प्रमेयमार्गः तस्य पान्थे नित्यं पथिके । अपूर्वप्रमेयपरितुष्टे काव्येऽयमष्टमः सर्गः अगात्समाप्तिं प्राप्तः॥
इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्र- काशेऽष्टमः सर्गः॥
नवमः सर्गः ।
दूतवचनश्रवणानन्तरं किमभूदिति वर्णयितुं नवमं सर्गभारभते-
इतीयमक्षिभ्रवविनमेङ्गि[१]तस्फुटामनिच्छां विवरीतुमुत्सुका ।
तदुक्तिमात्रश्रवणेच्छयाशृणोद्दिगीशसंदेशगिरं न गौरवात् ॥१॥
इतीति ॥ इयं भैमी (इति पूर्वोक्ताम्) दिगीशसंदेशगिरं दिक्पालानां वाचिकं तस्य
- ↑ 'विभ्रमेङ्गितैः' इति जीवातुसंमतः पाठः ।