पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
नैषधीयचरिते

स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मनः कटाक्षः
 श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।
नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रेषु चित्तं
   तन्नस्तन्वङ्गि कैश्चिन्न करणहरिणैर्वागुरा ल[१]ङ्घितासि॥१०६॥

 स्वप्नेनेति ॥ ननु यस्मात्संबुद्धौ वा नः अस्माकं कटाक्षः प्रतिरजनि रजन्यां रजन्यां स्वप्नेन प्रापिताया विषयीकृतायाः तव श्रीषु शोभासु यस्मान्मग्न:। तथा यस्मात् नः श्रोत्रे कर्णौ गीतामृताब्धौ गानरूपसुधासमुद्रे मग्ने । यस्माच्च नः त्वगपि सुकुमारत्वात् तनूमञ्जरी शरीररूपा मञ्जरी तस्याः सौकुमार्ये मग्ना । यस्माच्च नः नासा तव श्वासा- धिवासे निःश्वासरूपे गन्धमाल्यादिपरिमले मग्ना। यस्माच्च नः रसज्ञा जिह्वा अधररूपे- ऽधरसंबन्धिनि वामृते निमग्ना । यस्माच्च नः चित्तं तव चरित्रेषु विलासादिसर्वव्यापारेषु मग्नम् । तत्तस्मात् हे तन्वङ्गि कृशाङ्गि, नोऽस्माकं कैश्चिदपिकरणहरिणैरिन्द्रियरूपैर्मृगैः वागुरा मृगबन्धनरूपा न लङ्घितासि नातिक्रान्तासि । वागुरातुल्यया त्वया बद्धानि चक्षुरादीनि षडिन्द्रियाणि त्वद्रूपं स्वं स्वं विषयं प्राप्य त्वामतीत्य गन्तुं न शक्नुवन्ती- त्यर्थः । स्वप्नेऽप्यस्माभिरन्या न स्पृष्टेत्येवमनुरागिणोऽस्माञ्झटिति वृणीष्वेति भावः । देवानामस्वप्नत्वेऽपि स्वानुभवसिद्धत्वेनैव दूतेनैवमुक्तम् । प्रतिरजनि स्वप्नेन प्रापिताया इत्यनौचिती नाशङ्कनीया । यद्वा विरहवशात्प्रतिकूला रजनी रात्रिर्यस्यास्तादृशी भैमी स्वप्न इव स्वप्नो विपर्ययज्ञानम् । उन्मादावस्थेति यावत् । तया प्रापितायाः सर्वत्र दृश्य- मानायास्तवेति व्याख्येयम् । रजन्या हरिद्रायाः प्रतिकूला । यद्वा प्रतिकूला रजनी यस्याः गौरत्वातिशयेन जितहरिद्रे भैमीति वा । वागुरापि मृगैर्लङ्घितुं न शक्यते । प्र- तिरजनि वीप्सायामव्ययीभावः। पक्षे समासान्तविधेरनित्यत्वात्कबभावः। कैश्चिच्छब्दा- दपिशब्दो द्रष्टव्यः । तन्वङ्गी ' अङ्गगात्र-' इति ङीष्[२]

  इति धृतसुरसार्थवाचिकस्रङ्गिरसनातलपत्रहारकस्य ।

  सफलय मम दूततां वृणीष्व स्वयमवधार्य दिगीशमेकमेषु ॥ १०७ ॥

 इतीति ॥ हे भैमि, त्वं मम दूततां सफलय कृतार्थीकुरु । एषु इन्द्रादिषु मध्ये एकं दिगीशं स्वयमवधार्य विचार्य न तु सखीभिः सार्धमित्यर्थः। यस्मिन्ननुरागस्तं वृणीष्व। कस्यचिदेकस्य वरणान्मम दूत्यसाफल्यं कुवित्यर्थः । किंभूतस्य मम इति पूर्वोक्तप्रका- रेण धृता सुरसार्थानामिन्द्रादिदेवसङ्घानां वाचिकस्त्रक् संदेशवचनपरम्परा येनैवंविधं निजं स्वीयं रसनातलं जिद्वास्वरूपं तद्रूपं यत् पत्रं तस्य हारक आनायकस्तस्य । अ- न्योऽपि लेखपत्रानायकस्य दूतस्य दूत्यं स[३]फलयति ॥


  1. 'लम्भिता' इति पाठः 'न लम्भिता न प्राप्ताऽसि सर्वैरपि प्रापिता' इति जीवातुसंमतः
  2. 'अत्र छेकानुप्रासरूपकदीपकालंकाराः । स्रग्धरा वृत्तम्' इति साहित्यविद्याधरी । 'अत्र चतुर्थपादार्थस्य पूर्वषड्वाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम्, तच्च 'करणहरिणैः' इत्यादिरूपकेण संकीर्यते' इति जीवातुः।
  3. 'अत्र रूपकमलंकारः । पुष्पिताग्रा वृत्तम्' इति साहित्यविद्याधरी।