पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५१
नैषधीयचरिते

अमृतरसस्यापेक्षया ममताक्षररूपस्य मधुसीकरस्याधिक्यादित्यर्थः । 'यो बहुभिर्न शान्तः, स एकेन शान्त इति चित्रम् । अस्मान्वृणीष्वेति भावः[१]

  खण्डः किमु त्वद्गिर एव खण्डः किं शर्करा तत्पथशर्करैव ।

  कृशाङ्गि तद्भगिरसोत्थकच्छतृणं नु दिक्षु प्रथितं तदिक्षुः ॥१०१॥

 खण्ड इति ॥ हे कृशाङ्गि, त्वद्रिरस्त्वद्वाण्याः खण्ड एव लेश एव खण्डः शर्करारस- विशेषः किमु । त्वद्वाणीशकलवाच्यत्वादेव तस्य खण्डत्वं नाम माधुर्यं च जातमित्यु- त्प्रेक्षा । तस्या वाण्याः पन्था गमनमार्गः, तस्मिन् शर्करा कर्परांशरूपैव शर्कराख्य इक्षुविकारः किम् । कर्परांशनामसाम्याच्छर्करेति नाम जातं माधुर्यं च । पथि शर्करा भवन्ति । तस्या वाण्याः भङ्गिः वक्रोक्त्यादिरचना तज्जनितः शृङ्गारादिरसस्तस्मात् , अथ च तल्लक्षणादुदकात् उत्थमुत्थितं यत्कच्छतृणं जलप्रायप्रदेशतृणं तदेव दिक्षु इक्ष्विति प्रथितं नु । कच्छतृणस्य च इक्षुरिति संज्ञा । तद्रससंबन्धान्माधुर्यं जातं किमित्यर्थः । खण्डादिभ्योऽप्यधिकं त्वद्वाणी मधुरतरेति भावः । 'शर्करा खण्डविकृ- तावुपलाकर्परांशयोः' इति विश्वः[२]

  ददाम किं ते सुधयाऽधरेण त्वदास्य एव स्वयमास्यते हि[३]

  [४]न्द्रं विजित्य स्वयमेव भावि त्वदाननं तन्मखभागभोजि ॥१०२॥

 ददामेति ॥ हे भैमि, वयं ते तुभ्यं किं ददाम । अपितु त्वद्दानयोग्यं वस्तु किमपि न विद्यत इत्यर्थः । अमृतामरत्वयज्ञभागेषु मध्ये एकं देयमित्याशङ्क्याह-अधरेण सु- धया ओष्ठलक्षणेनामृतेन त्वदास्य एव स्वयं हि यस्मादास्यते स्थीयते । ओष्ठेन त्वन्मुखे सुधीभूयैव स्थीयते यत इति वा । यतश्च त्वदाननं चन्द्रं विधुं विजित्य स्वयमेव तस्य चन्द्रस्य मखभागभोजि यज्ञभागग्राहि भावि भविष्यति । तत्तदपि न देयमित्यर्थः । अमृतयज्ञभागदानद्वारोपकर्तुं न शक्नुम इत्यर्थः । सुधाचन्द्राभ्यां सकाशात्त्वदोष्ठमुख- मधिकमिति भावः[५]

 अमरत्वमपि दातुमशक्यमित्याह-

  प्रिये वृणीष्वामरभावमस्मदिति [६]त्रपाकृद्वचनं न किं नः ।

  त्वत्पादपद्मे शरणं प्रविश्य स्वयं वयं येन जिजीविषामः॥१०३॥

प्रिय इति ॥ इति नोस्माकं वचनं अस्माकमेव त्रपाकृल्लज्जावहं किं न, अपितु लज्ज- वहमेव । इति किम्-हे प्रिये, त्वं अस्मत्सकाशादमरभावमविनाशत्वं वृणीष्वेति । येन कारणेन वयं त्वत्पादपद्मे (द्वितीयाद्विवचनम्) शरणं प्रविश्य तल्लक्षणमेव रक्षितारं प्राप्य स्वयं आत्मनैव जिजीविषामः जीवितुमिच्छामः । स्वयं तीर्णो हि परांस्तारयति


  1. 'अत्र कार्यकारणविरोधाद्विषमोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रोत्प्रेक्षानुप्रासश्च' इति साहित्यविद्याधरी
  3. 'यतः' इति जीवातुस्थः पाठः ।
  4. 'विधुम्' इति जीवातुस्थः पाठः ।
  5. 'अत्र छेकानुप्रासरूपकातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  6. 'त्रपोदञ्चि वचौ' इति जीवातुपाठः।