पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५१
अष्टमः सगः ।

सुखायालं, न कमलपूजा । त्वच्चरणाघातेन वयं यथा सुखिनो भवामः तथा कुर्विति भावः[१]

  स्वर्णैर्वितीर्णैः करवाम वामनेत्रे भवत्या किमुपासनासु ।

  अङ्ग त्वदङ्गानि निपीतपीतदर्पाणि पाणिः खलु याचते नः ॥ ९८ ॥

 स्वर्णैरिति ॥ हे वामनेत्रे सुन्दरनेत्रे, भवत्या त्वया उपासनासु पूजासु वितीर्णैरर्पितैः स्वर्णपुष्पैः किं करवाम । तानि बहून्यस्माकं विद्यन्ते तैः किमपि प्रयोजनं नास्ति । तर्हि किम्-हे अङ्ग प्रिये, खलु यस्मात् नः अस्माकं पाणिः निपीतः पीतानां सुवर्णा- दीनां पदार्थानां दर्पो गर्वो यैस्तानि त्वदङ्गानि याचते । यैः सुवर्णादि जितं तदभिला- षिणः पुरुषस्य सुवर्णेन प्रीतिः कथं स्यादित्यर्थ:[२]

  वयं कलादा इव दुर्विदग्धं त्वद्गौरिमस्पर्धि दहेम हेम ।

  प्रसूननाराचशरासनेन सहैकवंशप्रभवभ्रु बभ्रु ॥ ९९ ॥

 वयमिति ॥ हे प्रसूननाराचः कामस्तस्य शरासनेन धनुषा सह एक(स्मिन्) वंशे वेणौ, कुले च प्रभवो ययोः ईदृशे भ्रुवौ यस्याः तत्संबुद्धिः। प्रायेणैकवंशोत्पन्नस्तुल्यो भवति । वयं कलादा इव स्वर्णकारा इव तव गौरिम्णा सह स्पर्धि त्वद्गौरत्वसाम्या- भिलाषि । अत एव उत्तमस्पर्धया दुर्विदग्धं दुर्विनीतं बभ्रु पिङ्गलं हेम सुवर्णं दहेमाग्नौ प्रक्षिपामः । बभ्रत्वादन्यवर्णत्वं सुवर्णस्य सूचितम् । वयं त्वदीयास्त्वदपराधकारिणः सुवर्णस्य वह्निप्रक्षेपरूपं दण्डं कुर्म इत्यर्थः । अस्माकं सुवर्णेन प्रयोजनं नास्तीत्यभिप्रायः। 'कलादो रुक्मकारके' 'बभ्रु स्यापिङ्गले त्रिषु' इत्यमरः । 'नेयङुवङ्-' इति नदीसं- ज्ञानिषेधात् 'अम्बार्थ-' इति ह्रस्वाभावात् 'प्रभवभ्रु' इत्यत्र संबुद्धिह्रस्वो 'विमानना सुभ्रु कुतः' इत्यादिमहाकविप्रयोगदर्शनाज्ज्ञातव्य:।समाधानान्तरं च ग्रन्थान्तराज्ज्ञातव्यम्[३]

  सुधासरःसु त्वदनङ्गतापः शान्तो न नः किं पुनरप्सरःसु ।

  निर्वाति तु [४]त्वन्ममताक्षरेण सूनाशुगेषोर्मधुसीकरेण ॥ १०० ॥

 सुधेति ॥ नोऽस्माकं त्वन्निमित्तोऽनङ्गतापः कामज्वरः सुधासरःस्वमृतसरसी- ष्वपि निमज्जनेन न शान्तः । किं पुनः अपां सरःसूदकसरसीषु, अथ च रम्भादिदेवा- ङ्गनासु न शान्तः । तदपेक्षया त्वमधिकेति भावः । तर्हि कथं शाम्यतीत्याशङ्क्याह-सू- नाशुगः कामस्तस्य इषुः पुष्पं तस्य मधुसीकररूपेण तव ममतारूपेणाक्षरेण इन्द्रादयो मदीया इति स्वस्य स्वामित्वम्, इन्द्रादीनां च स्वीयत्वं सूचयता तु पुनः निर्वाति ।


  1. 'अत्रातिशयोत्तयलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र छेकानुप्रासातिशयोत्तयलंकारः' इति साहित्यविद्याधरी
  3. 'अत्रोपमाच्छेकानुप्रासालंकारः' इति साहित्यविद्याधरी।
  4. 'त्वंममताक्षरेण' इति पठित्वा 'त्वं मम' इत्याकारकेणाक्षरणेति व्याख्यातुं युक्तम् ।