पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
नैषधीयचरिते

धीनो देयो वा न कृतः। तथा सिन्धुः समुद्र उत्सर्गजलव्ययैर्दाने क्रियमाणे ये जलव्यया जलदानानि तैर्मरुर्निर्जलदेशो न कृतः । दानं हि जलपूर्वकं भवति । यद्वा-मरुरुत्सर्गजलव्ययैः सिन्धुर्न कृतः । तदकरणलक्षणापयश:स्थाने द्विफालबद्धाः केशा एव जाता इत्यर्थः । सर्वस्वदानेऽपि यावदेतद्व्यं न कृतं तावन्नलो न तुतोषेति भावः । एतेनास्यायशोलेशोऽपि नास्तीति सूचितम् । लौकिकोक्तिरपि--अपकीर्तिः शिरसि स्थिता इति । अर्थिसादित्यत्र 'तदधीनवचने', 'देये त्रा च' इति सातिः । फालशब्दः पात्रादिः [१]॥

अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन ।
दधौ पटीयान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥ १७ ॥

 अजस्त्रमिति ॥ अयं देवो राजा नलो दिने दिने प्रतिदिनमुदयमधिकामभिवृद्धिं दधौ। किं कुर्वन्-–कविना काव्यकर्त्रा बुधेन विदुषा वैयाकरणेन च समं सह मुदैव हर्षेणैव समयं कालं नयन्गमयन् । किंभूतेन कविना बुधेन च--अजस्रं सर्वदाभ्यासं काव्यकवनशास्त्रमननव्यसनमुपेयुषा प्राप्तवता । 'अभ्याशम्' इति पाठे नलसांनिध्यम् । कीहक्सः-पटीयान्कवित्वाद्यभ्यासवान, आक्षेपादिसमर्थश्च । पुनः किंभूतः-दिनेश्वर-श्रीर्दिनेश्वरः सूर्यस्तद्वच्छ्रीः शोभा यस्य । अत एव दिनेश्वरोऽपि कविना शुक्रेण बुधेनचन्द्रपुत्रेण सह प्रातरादिसमयं कुर्वन्पटीयांस्तेजस्धी तमोनाशसमर्थः प्रतिदिनमुदयं धत्ते । 'बुधशुक्रौ सदा पूर्वोत्तरराशिस्थौ' इति ज्योतिर्विदः । यद्वा-ताभ्यां समं समयं सम्यञ्चम् अयं शुभावहविधिं यन्प्राप्नुवन्नयं प्रतिदिनमुदयं न दधौ, अपितु दधावेव । 'अभ्यासो व्यसनेऽन्तिके' इति विश्वः । अजस्त्रमिति नञ्पूर्वाच्चसेः 'नमिकम्पि-' इति रः । उपेयुषेति 'उपेयिवाननाश्वाननूचानश्च' इति साधुः। उपेयुषेत्यादौ सममिति सहार्थयोगे तृतीया[२] ॥

तस्य सामुद्रिकलक्षणवत्त्वमाह--

अधोविधांनात्कमलप्रवालयोः शिरःसु दानादखिलक्षमाभुजाम् ।
पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥ १४ ॥

अधोविधानादिति ॥ किमिति संभावनायाम् । वेधसा ब्राह्मणास्य नलस्य पदं चरण इति हेतोरूर्ध्वरेखया लक्षणभूतयाङ्कितं चिह्नितं किम् । इतीति किम्-इदं नलपदं कमलप्रवालयोः पद्मपल्लवयोः कमलविद्रुमयोर्वा अधोविधानादंरुणत्वस्निग्धमृदुत्वैरधः करणाद्धिकारात्, तथा--अखिलक्षमाभुजां समस्तभूभृतां शिरःसु दानास्थापनात्क्रमेणोर्ध्वमुत्कृष्टमुपरि च पुरा भवति भविष्यति । 'यावत्पुरा-' इत्यादिना लट् । राज्ञां शिरःसु दानं नामाक्रम्यवर्तनम् [३]॥


१ 'द्विफालबद्धान्केशान्न विभर्ति, किंतु शिरःस्थितमयशोयुगमेतदित्यपहुतिरलंकार इति साहित्यविद्याधरी । 'केशेषु काष्ण्य्रसाम्येनायशोरूपणाद्र्पकमलंकार' इति जीवातुः । २ 'अत्रोपमाश्लेषसहोक्तयोऽलंकारा इति साहित्यविद्याधरी । दिनेश्वरश्रीरिव श्रीर्यस्य स इति निदर्शनालंकारः । अत्र निदर्शनाश्लेषयोः श्लेषः' इति जीवातुः। ३ 'अत्रोत्प्रेक्षालंकारः । संभावनमथोत्प्रेक्षा' इति साहित्यविद्याधरी ।