पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४७
अप्रमः सर्गः।

इतीति ॥ त्रिलोक्यास्तिलकेष्वलंकारभूतेविन्द्रादिषु विषये भवतीं त्वामेवामोघशस्त्रं सफलमस्त्रमवाप्य मदान्धतया गर्वान्धत्वेन अनर्गलमुच्छृङ्खलं चापलं यस्य मनोभुवः कामस्य इति पूर्वोक्तप्रकारेण विक्रमः कामचारः स्वेच्छाचारः। वर्तत इति शेषः। कामेन त्वन्निमित्तमिन्द्रादयोऽतितरां पीड्यन्ते । मदान्धतेत्यनेन कामस्य द्विरदत्वं सूचितम् । अवाप्य स्थितस्येति योजनीयम्[१]

  सारोत्थधारेव सुधारसस्य स्वयंवरः श्वो भविता तबेति ।

  संतर्पयन्नी हृदयानि तेषां श्रुतिः श्रुती नाकजुषामयासीत् ॥ ४५ ॥

 सारेति ॥ हे दमयन्ति, तव स्वयंवरः श्यो भाविनि दिवसे भवितेति श्रुतिर्वार्ता तेषां नाकजुषां देवानां श्रुती कर्णावयासीत्प्रापत् । किंभूता-सुधारसस्यामृतरसस्य सारोस्थधारेव श्रेष्ठभागोस्थितप्रवाह इव संतर्पयन्ती तानेव हर्षयन्ती। स्वयंवरं श्रुत्वातीव हृष्टा इति भावः॥

  समं सपत्नीभवदुःखतीक्ष्णैः खदारनासापथिकैर्मरुद्भिः।

  अनङ्गशौर्यानलतापदुस्थैरथ प्रतस्थे हरितां मरुद्भिः॥४६॥

 सममिति ॥ अथ स्वयंवरवार्ताश्रवणानन्तरं हरितां दिशां मरुद्भिः स्वामिभिरिन्द्रादिभिः स्वेषां दाराः स्त्रियस्तेषां नासापथिकैर्नासिकामार्गस्थैर्मरुद्भिः निश्वसितानिलैः समं सह प्रतस्थे प्रस्थितम् । किंभूतैर्नासावायुभिः सपत्नीभवेन सपत्नीहेतुकेन दुःखेन तीक्ष्णैरत्युप्णैः । किंभूतैर्देवैः-अनङ्गशौर्यमेवानलोऽग्निस्तजनितस्तापस्तेन दुस्थैर्जर्जरीभूतैः । त्वद्वरणार्थ प्रस्थितान्स्वपतीन्दृष्ट्वा तत्पत्नीभिर्दुःखान्नासावायवो मुक्ता इति भावः । अन्योऽपि पान्थः पान्थैः सह प्रस्थानं करोति । चण्डवायुभिः सार्धमित्यनेनाशकुनं सूचितम्[२]

  [३]पास्तपाथेयसुधोपयोगैस्वचुम्बिनैव स्वमनोरथेन ।

  क्षुधं च निर्वापयता तृषं च स्वादीयसाऽध्वा गमितः सुखं तैः॥४७॥

 अपास्तेति ॥ तैरिन्द्रादिभिः त्वचुम्बिना त्वत्संबन्धिना स्वमनोरथेन भैमी प्राप्स्याम इति स्वीयेनाभिलाषेणैव कृत्वा अध्वा मार्गः सुखमनायासेन गमितोऽतिवाहितः। किंभूतेन–स्वादीयसातिस्वादुना । अत एव-श्रुधं तृषं च निर्वापयता शमयता । अत एव अपास्तो त्यक्तः पाथेयः मार्गशम्बलरूपः सुधोपयोगोऽमृतोपयोगो यैस्तैः । त्वयि नावष्टाचतत्वाक्षुधा तृषा च नाभूत्, अत एव मार्गशम्बलममृतमपि त्यक्तं, ततोऽप्यधिका तव प्राप्त्याशेत्यर्थः । भुवं प्रत्यागमने मनोलक्षणेन रथेन भुवमागताः । 'सु-


  1. 'अत्र छेकानुप्रासरूपकालंकारौं' इति साहित्यविद्याधरी।
  2. 'अत्रानुप्राससहोक्त्यलंकारौं' इति साहित्यविद्याधरी । 'अत्र पवनामरप्रस्थानयोः कार्यकारणभावात्तदङ्गलक्षणातिशयोक्त्युत्थापितः सहोक्त्यलंकारः' इति जीवातुः।
  3. 'त्वचुम्बिनैव स्वमनोरथेन स्वादीयसाऽस्तंगमितक्षुधेन । अपास्तपाथेयसुधोपयोगैरध्वा भुवस्तैरयमत्यवाहि' इति पाठः साहित्यविद्याधरीसंमतः